________________
द्वितीयो भाग: [ परि० ६ - का० ७७-७८ ]
नैकान्ताद्धेतुवादः प्रभवति सकलं सत्त्वमुन्नेतुमेक स्तद्वन्नाहेतुवादः प्रवद( भव ) ति विहिताशेषशङ्काकलापः । इत्यार्याचार्यवर्या विदधति निपुणं स्वामिनस्तत्त्वसिद्धयै स्याद्वादोत्तु सौधे स्थितिममलधियां प्रस्फुटोपायतत्त्वे ॥ [स्रग्धरा ]
। इत्याप्तमीमांसालङ्कृतौ षष्ठः परिच्छेदः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
बाधनेन तन्मात्रविश्रान्तान्तरङ्गरत्नत्रयबाधनान्मिथ्यात्वरूपत्वमेवेति तदभिप्रायमप्यविरुद्धमेवाकलयामः । तदेवं विस्ताराज्ञारुचिभेदेन हेतुवादाहेतुवादयोर्व्यापकत्वं व्यवस्थितम्, आहरणतद्देशतद्दोषोपन्यासादिहेतुविस्तरस्तु मत्कृतोपदेशामृततरङ्गिणीतो बोध्यः, यथा तद्व्यापकत्वे निःशङ्कं चेतः स्यादित्युपरम्यते । व्यवहारतस्तु हेतुबहुलत्वात् प्रायो दृष्टिवादाख्य आगमो हेतुवाद:, तदितरश्चाहेतुवाद उच्यते, तदपेक्षयाऽयं प्रज्ञापकविभागः सम्मतिसिद्ध:
५७७
जो वायपक्खम्म हेउओ आगमे य आगमिओ ।
सो स्यासमयपसवओ सिद्धंतविराहगो अण्णो ॥१॥ त्ति [का० ३.४५]
अन्यस्य विराधकत्वं च प्रतिपादकवचस्यनास्थादिदोषोत्पादनादिति बोध्यम् ॥७८॥
हेत्वागमान्यतरपक्षविपक्षभावाद्,
यद् ग्रथ्यते निबिडमाशु कुयुक्तिजालम् ।
तच्छेदनाय पटिमानमसौ बिभर्ति,
स्याद्वादपद्धतिरनेकसुयुक्तिजालम् ॥ [ वसंततिलका]
इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारक श्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्याय श्रीकल्याणविजयगणिशिष्यावतंसपण्डित श्रीलाभविजयगणि
शिष्याग्रेसरपण्डित श्रीजितविजयगणिसतीर्थ्यालङ्कार
पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीके
पण्डित श्रीपद्मविजयगणिसहोदरेण महोपाध्याय श्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे ॥ षष्ठः परिच्छेदः सम्पूर्णः ॥