________________
अष्टसहस्त्रीतात्पर्यविवरणम्
५७६
स्यादवक्तव्यं, सहार्पितद्वयात् । शेषभङ्गत्रयं च पूर्ववत् । इति सप्तभङ्गीप्रक्रिया योजनीया ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तत्प्रवृत्तावपि स्वातन्त्र्येण तदप्रवृत्तेः तथा च भव्याभव्यत्वादयोऽहेतुवादसिद्धाः, अन्ये च हेतुवादसिद्धा इति व्याप्त्या प्रकृतसप्तभङ्गी न युक्तेति चेत्, मैवं, स्याच्छब्दमर्यादयैव सर्वानुपपत्तिनिरासात्, अहेतुवादसिद्धस्याप्यर्थस्य तत्तद्धमिणि तत्प्रतिपादितलिङ्गेन हेतु - वादत्वव्यवस्थिते:, तदुक्तं सम्मतावेव
भविओ सम्मदंसण - नाण- चरित्तपडिवत्तिसपुन्नो ।
णियमा दुक्खंतकडो त्ति लक्खणं हेउवायस्स ॥ [३.४४]
प्रयोगश्चायम्-भव्योऽयं सम्यग्दर्शनज्ञानचारित्रप्रतिपत्तिसम्पूर्णत्वात् सम्प्रतिपन्नपुरुषवदिति, किं बहुना ? अहेतुवादसिद्धेऽप्यर्थे ततोऽनेकान्तात्मकत्वसाधिका निराकाङ्क्षतात्पर्यार्थप्रतिपत्तिपर्यन्ताश्च या उपपत्तयस्ता हेतुवादसिद्धत्वमुपपादयन्ति श्रुतमात्रेण ज्ञातस्याज्ञातप्रायत्वात्, ताश्चोपपत्तयः श्रुतोपयोगानन्यत्वान्न श्रुतत्वव्याहन्त्र्य इत्याद्युपपादितं "ज्ञानबिन्दौ अस्माभिः । अत एव पदार्थप्रतिपत्त्यागमात् निश्चितमप्यर्थं सिसाधयिषाधीनपक्षतयाऽनुमिन्वतेऽनुमानरसिकाः, मननसाध्यश्रद्धाविशेषस्येत्थमेवोपपत्ते:, अत एव नियमतः षट्कायश्रद्धानेऽपि जिनवचनरुचिमत्त्वाद् द्रव्यतः सम्यग्दृष्टित्वं, न तु भावतो, भावसम्यग्दर्शनस्य सकलनयविषयविवेचनसाध्यत्वादेकविधद्विविधादिपर्यायापरिच्छेदे तदनुपपत्तेरिति वदन्ति । तदाह सम्मतौ महावादी
नियमेण सद्दहंतो छक्काए भावओ ण सद्दहइ ।
हंदी अपज्जवेसु वि सद्दहणा होइ अविभत्ता । [३.२७ ]
अस्या अर्थः-नियमेन षडेवेत्यवधारणेन षट्कायान् श्रद्दधदपि भावतो न श्रद्धत्ते, प्रकृतधर्मघटितसप्तभङ्गपर्याप्तप्रकारताकबोधादिजनितसमूहालम्बनरुचेरेव प्रकृतधर्मभावश्रद्धापदार्थत्वात्, तदाह-अपर्यायेषु भङ्गान्तरसंवलनरहितेषु धर्मेषु, अपेभिन्नक्रमत्वात् श्रद्धाऽप्यविभक्ताऽसम्पूर्णा भवति, द्रव्यश्रद्धापर्यवसन्ना भवतीति यावत् । अयमस्माकं मनीषोन्मेषः । अन्ये त्वेवमुत्तरार्द्धं व्याचक्षते- हन्दि यतोऽपर्ययेष्वविवक्षितपर्यायेषु पुद्गलेष्वपि श्रद्धाऽविभक्ता एकरूपा भवतीति, तथा च पूर्वोत्तरार्द्धाभ्यां जीवपुद्गलयोः सामान्यत एकरूपत्वोपदर्शनात्तदुभयघटितनिकायषट्कै कान्तबाधात्तच्छूद्धानस्य द्रव्यसम्यक्त्वरूपत्वमेव जिनवचनाभिनिवेशदशायां, स्वाभिनिवेशदशायां तु शुद्धात्मस्वरूप -