________________
द्वितीयो भागः [परि०६-का० ७७-७८]
५७५ दृष्टेष्टविरोधवचनत्वात् । तत्रानिश्चितवचनविशेषस्य कस्यचिद्वीतरागत्वेतराभ्यां संदेहेऽपि निश्चितवचनविशेषस्य शक्यमाप्तत्वं व्यवस्थापयितुम् ।
(भा० ) तत्राप्तिः साक्षात्करणादिगुणः । 'सूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षा' [का० ५] इत्यादिना साधितः । (भा०) संप्रदायाविच्छेदो वा ।
सर्वज्ञादागमस्तदर्थानुष्ठानात् सर्वज्ञ इति सुनिश्चितासम्भवबाधकप्रमाणत्वात्सिद्धः प्रवचनार्थस्य ।
(भा०) अन्यथान्धपरम्परया प्रतिपत्तेः ।
न ह्यन्धेनाकृष्यमाणोऽन्धः स्वेष्टं मार्गमास्कन्दति नाम । न चैवं सम्प्रदायाविच्छेदे परस्पराश्रयणं, कारकपक्षे बीजाङ्कुरादिवदनादित्वात्तस्यानवतारात् । ज्ञापकपक्षेऽपि परस्मात् स्वतः सिद्धात्, पूर्वस्य ज्ञप्तेर्नेतरेतराश्रयणं, प्रसिद्धेनाप्रसिद्धस्य साधनात् । तदेवं स्यात्सर्वं हेतुतः सिद्ध करणाप्तवचनानपेक्षणात् । स्यादागमात्सिद्धमक्षलिङ्गानपेक्षणात् । स्यादुभयतः सिद्धं, क्रमार्पितद्वयात् ।
-
अट
अष्टसहस्त्रीतात्पर्यविवरणम्
बोध्यम् । तस्य युक्तियुक्तत्वविरोधादिति 'न हिंस्यात् सर्वा भूतानि' इत्यादिसामान्यश्रुत्युपबृंहकतर्कविरोधादित्यर्थः । स्यात् सर्वं हेतुतः सिद्धमित्यादि, ननु कथमेतत् कात्स्येन हेतसिद्धत्वाद्यभिधानं घटते ? हेतसिद्धागमसिद्धानामर्थानामवान्तरविभागेनैव व्यवस्थितत्वात, तदाह सम्मतिकार:
दुविहो धम्मावाओ अहेउवाओ अ हेउवाओ अ ।
तत्थ उ अहेउवाओ भवियाभविआदओ भावा ॥ [३.४३ ]
अस्या अर्थः-धर्माणामस्तित्वादीनामासमन्ताद्वादस्तत्प्रतिपादक आगमोऽहेतुवादो हेतुवादश्चेति द्विधा, तत्र प्रमाणान्तरानवगतार्थप्रतिपादक आगमोऽहेतुवादः, तद्विपरीतो हेतुवादो । हेतोर्हेतुपरिच्छिन्नस्य वादो हेतुवाद इति व्युत्पत्तेः । तत्र त्वहेतुवादो भव्याभव्यत्वादयो भावाः, विषयाध्यवसानेन विषय्यभिधानमेतत् भव्याभव्यत्वादिप्रतिपादक आगम इत्यर्थः । न ह्ययं भव्योऽभव्यो वेत्यत्रास्मदादीनां प्रमाणं प्रवर्त्तते, न च तद्विभागप्रतिपादकं वचनं यथार्थम् अर्हद्वचनत्वादित्यनुमानप्रवृत्तेर्व्याघातः, वचनविभागावच्छेदकत्वेन