________________
५७४
अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) ततोऽनाप्तवचनान्नार्थज्ञानमन्धरूपदर्शनवत् ।
न हि जात्यन्धो रूपं दर्शयितुमीशः परस्मै । तथानाप्तोऽपि नार्थं ज्ञापयितुमतिप्रसङ्गात् । एवमपौरुषेयस्य वचनस्य पौरुषेयस्य च गुणवद्वक्तृकस्य कारणदोषाभावान्निर्दोषत्वं समानमतिशयासम्भवात् ।
(भा०) तत्र यदेव युक्तियुक्तं तदेव प्रतिपत्तुं प्रतिपादयितुं वा शक्यं । __ कथञ्चित्पौरुषेयत्वं, न तु सर्वथापौरुषेयत्वं, तस्य युक्तियुक्तत्वाभावात् तद्युक्तीनां तदाभासत्वसमर्थनात् । तत्रापौरुषेयत्वेऽपि वा वेदे यदेव युक्तियुक्तं तदेव प्रतिपत्तुं प्रतिपादयितुं वा शक्यं वचनम् ।
(भा०) अग्निर्हिमस्य भेषजं, द्वादश मासाः संवत्सरः (भा०) इत्यादिवत् नाग्निहोत्रादिवाक्यसाधनं, तस्य युक्तियुक्तत्वविरोधात् ।
(भा०) सिद्धे पुनराप्तवचनत्वे यथा हेतुवादस्तथाऽऽज्ञावादोऽपि प्रमाणं,
तदाप्तवचनत्वाविरोधात् ।
(भा०) ननु चापौरुषेयत्ववदाप्तशासनमप्यशक्यव्यवस्थं । ___ तस्यैव ज्ञातुमशक्तेः, सरागस्यापि वीतरागवच्चेष्टोपलम्भादयमाप्त इति प्रतिपत्त्युपायासत्त्वात् तस्य शासनमिति व्यवस्थापयितुमशक्तेरित्यपरे ।
(भा०) उक्तमत्र सर्वथैकान्तवादानां स्याद्वादप्रतिहतत्वादिति । युक्तिशास्त्राविरोधिवाक्त्वाद्विनिर्दोषोऽयमिति शक्यं निर्णेतुं, दोषवानयमिति च,
– अष्टसहस्रीतात्पर्यविवरणम् मोहः पापीयान्नामूढस्येतरोत्पत्तेः [ ] इति सूत्रे च तेषां रागद्वेषमोहानां रागमोहयोद्धेषमोहयोर्वा मध्ये मोहः पापीयान् बलवद्वेषविषयोऽमूढस्य रागद्वेषानुत्पत्तेरित्यर्थो व्याख्यात इति