________________
द्वितीयो भाग: [ परि० ६ - का० ७७-७८ ]
तदप्रसिद्धेः ।
( भा० ) सिद्धेऽपि तदनादित्वे पौरुषेयत्वाभावे वा कथमविसंवादकत्वं प्रत्येतव्यम् ? म्लेच्छव्यवहारादेस्तादृशो बहुलमुपलम्भात् ।
५७३
तेन तस्य व्यभिचारात् । एतेन वेदैकदेशेन स्वयमप्रमाणतयोपगतेनानादित्वस्यापौरुषेयत्वस्य चानैकान्तिकत्वमुक्तम् । किञ्च
( भा० ) कारणदोषनिवृत्तेः कार्यदोषाभावकल्पनायां पौरुषेयस्यैव वचनस्य दोषनिवृत्तिः कर्तुर्वीतदोषस्यापि सम्भवात् ।
'दोषावरणयोर्हानिः ' (का० ४) इत्यादिना संसाधनात्, न पुनरपौरुषेयस्य । (भा०) तदध्येतृव्याख्यातृश्रोतॄणां रागादिमत्त्वात् ।
वीतरागस्य कस्यचिदनभ्युपगमात्, सर्वथाप्यपौरुषेयस्य तदुपगमेन विरोधात् । ( भा० ) नेतरस्य ।
कथञ्चित्पौरुषेयस्य तदविरोधात् ।
( भा० ) इति निःशङ्कं नश्चेतः,
त्रिविप्रकृष्टस्यापि निर्णयोपायप्रतिपादनादिति ।
( भा० ) वक्तृगुणापेक्षं वचनस्याविसंवादकत्वं चक्षुर्ज्ञानवत् । विसंवादस्य
( भा०) तद्दोषानुविधानात् ।
यथैव हि चक्षुर्ज्ञानस्य ज्ञातृगुणं सम्यग्दर्शनादिकमपेक्ष्याविसंवादकत्वं, तद्दोषं मिथ्यादर्शनादिकमपेक्ष्य विसंवादकत्वं चोपपद्यते तथा वक्तुर्गुणं, यथार्थज्ञानादिदोषं च मिथ्याज्ञानादिकमपेक्ष्य संवादकत्वं विसंवादकत्वं चेति निश्चितं महाशास्त्रे ।
अष्टसहस्त्रीतात्पर्यविवरणम्
एव न्यायचतुर्थाध्याये 'नानुपमृद्य प्रादुर्भावात् इति सूत्रेऽनुपमृद्य प्रादुर्भावाभावादित्यर्थः, तेषां
१. अभावात् भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् (न्या० ४.१.१४) वाचस्पति टी: नानुपमृद्य प्रादुर्भावो यतस्तस्मादित्यर्थः ।