________________
अष्टसहस्त्रीतात्पर्यविवरणम्
यतो विद्यमानवक्तृकेऽपि भावादध्ययनवाच्यत्वस्यानैकान्तिकत्वं न स्यात् । वेदविशेषणस्याध्ययनवाच्यत्वस्यान्यत्राभावान्नानैकान्तिकतेति चेत्, तर्हि पिटकत्रयादिविशेषणस्य वेदादावसम्भवादव्यभिचारिता कथं न भवेत् ? तथा च वेदवदवेदस्याप्यपौरुषेयत्वं प्रामाण्यनिबन्धनं याज्ञिकानां प्रवर्तकं स्यान्न वा वेदेऽपि, विशेषाभावात् ।
५७२
[वेदे दुर्भणत्वादि अतिशयो वर्तते अतः उभयत्र समानता नास्तीति कथने आचार्याः उत्तरयन्ति ]
दुर्भणदुःश्रवणादीनामस्मदाद्युपलभ्यानां
( भा० ) तदतिशयान्तराणां च शक्यक्रियत्वादितरत्रापि ।
परोक्षायाः
( भा० ) मन्त्रशक्तेरपि दर्शनात् ।
न ह्याथर्वणानामेव मन्त्राणां शक्तिरुपलभ्यते, न पुनः सौगतादिमन्त्राणामिति शक्यं वक्तुं, प्रमाणबाधनात् ।
[मन्त्राणामुत्पत्तिर्जैनेन्द्रवचनादेव न चान्यस्मात्]
वैदिका एव मन्त्राः परत्रोपयुक्ताः शक्तिमन्त इत्यप्ययुक्तं, प्रावचनिका एव वेदेऽपि प्रयुक्ता इत्युपपत्तेस्तत्र भूयसामुपलम्भात् समुद्राद्याकरेषु रत्नवत् । न हि कियन्त्यपि रत्नानि राजकुलादावुपलभ्यमानानि तत्रत्यान्येव, तेषां रत्नाकरादिभ्य एवानयनात् तद्भवत्वसिद्धेर्भूयसां तत्रोत्पत्तिदर्शनात् । तद्वत्प्रवचनैकदेशविद्यानुवादादेव सकलमन्त्राणां समुद्भूतिविस्तीर्णात्, न पुनर्वेदात्तल्लवमात्रादिति युक्तमुत्पश्यामः । वेदस्यानादित्वादपौरुषेयत्वाच्च तन्मत्राणामेवाविसंवादकत्वं संभवतीति चायुक्तं,
अष्टसहस्त्रीतात्पर्यविवरणम्
शक्यक्रियत्वादितरत्रापीति, पिटकत्रयेऽपि वक्तुं शक्यत्वादित्यर्थः । विद्यानुवादादेव विद्याप्रवादपूर्वोद्धृतशास्त्रादेव । एतेनेति मीमांसकस्य कार्येऽर्थ एव चोदनायाः प्रामाण्यादर्थवादरूपमन्त्रैकदेशेऽविसंवादकत्वायोगादनैकान्तिकत्वं स्फुटमेवेति भावः । न पुनरपौरुषेयस्येति अपौरुषेयस्य पुनः संसाधनाभावादित्यन्वयो व्युत्पत्तिविशेषात् ईदृशि स्थले प्रकृत्यर्थान्वितनञर्थविभक्त्यर्थयोरन्वयस्वीकारात् एवमग्रेऽप्युपयुज्य योज्यम् । अत