________________
५७१
द्वितीयो भागः [परि०६-का० ७७-७८]
[वेदस्यापौरुषेयत्वनिराकरणम्] पिटकत्रयादेः पौरुषेयत्वस्य स्वयं सौगतादिभिरभ्युपगमाद्वेदवादिभिश्च श्रुतेरपौरुषेयत्वोपगमादिति चेत्, सोऽयम्
(भा०) अभ्युपगमानभ्युपगमाभ्यां क्वचित्पौरुषेयत्वमन्यद्वा व्यवस्थापयतीति सुव्यवस्थितं तत्त्वम् । एतेन कर्तृस्मरणाभावादयः प्रत्युक्ताः ।
स हि श्रुतौ कर्तृस्मरणादिमत्त्वदृष्टकर्तृकसमानत्वाद्यभावमभ्युपगममात्राद् व्यवस्थापयति तद्भावं चेतरत्रानभ्युपगमात् । न च तथा तत्त्वं व्यवतिष्ठते,
(भा० ) वेदेतरयोरविशेषात् । इतरत्र बुद्धो वक्तेति चेत्, तत्र कमलोद्भवादिरिति कथं न समानम् ? ।
यथैव हि पिटकत्रये बुद्धो वक्तेति सौगताः प्रतिपाद्यन्ते तथा वेदेऽपि ते अष्टकान् काणादाः, पौराणिकाः कमलोद्भवं, जैनाः कालासुरं वक्तारमनुमन्यन्ते ।
(भा०) सुदूरमपि गत्त्वा तदङ्गीकरणेतरमात्रे व्यवतिष्ठेत श्रुतिवादी, प्रमाणबलात्तदवक्तृकस्य साधयितुमशक्तेः । स्यान्मतं
यद्वेदाध्ययनं सर्वं तदध्ययनपूर्वकम् ।
वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा ॥ [ इति प्रमाणाद्वेदे वक्तुरभावो, न पुनरभ्युपगममात्रात् इति तदयुक्तं, पिटकत्रयादावपि तत एव वक्त्रभावप्रसङ्गात् ।
(भा०) वेदाध्यनवदितरस्यापि सर्वदाध्ययनपूर्वाध्ययनत्वप्रक्लृप्तौ न वक्त्रं वक्रीभवति ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
व्यवस्थितविकल्पो व्याख्यातस्तान्त्रिकैः, अभ्यधिष्महि चैतत्संवादि सामाचारीप्रकरणे
'इयरंमि विगप्पेणं सो य विगप्पो ववढिओ एसो । संविग्गे गीयम्मि य तहेव अण्णत्थ जुत्तिखमे ॥१॥ त्ति (सा. ३२)
१. छाया - इतरस्मिन् विकल्पेन स च विकल्पो व्यवस्थित एषः ।
संविग्ने गीतार्थे च तथैवान्यत्र युक्तिक्षमे ॥१॥ इति