SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ५७० अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) स्वतः श्रुतेर्न वै प्रामाण्यमचेतनत्वाद् घटवत् । सन्निकर्षादिभिरनैकान्तिकत्वमयुक्तं तत्प्रामाण्यानभ्यपुगमात्, मुख्यरूपतः । (भा०) अथापि कथञ्चित् तत्प्रमाणत्वं स्यादविसंवादकत्वात् । सन्निकर्षादेरविसंवादकज्ञानकारणत्वेन तथोपचारसिद्धिरिति मन्येमहि, तथापि (भा०) श्रुतेरयुक्तमेव, तदभावात् । तेनोपचारमात्रमपि न स्यात्, तदर्थबुद्धिप्रामाण्यासिद्धेः । न हि श्रुतिरविसंवादिज्ञानस्य कारणं येनोपचारतः प्रमाणं स्यादिति निवेदितं प्राग् भावनादिश्रुतिविषयाविसंवादकत्वनिराकृतिप्रस्तावे । (भा०) आप्तवचनं तु प्रमाणव्यपदेशभाक्, तत्कारणकार्यत्वात् । प्रमाणकारणकं हि तत्, ( भा० ) तदतीन्द्रियार्थदर्शनोत्पत्तेस्तदर्थज्ञानोत्पादनाच्च । प्रमाणकार्यकम् । (भा०) नैतत् श्रुतेः सम्भवति, सर्वथाप्तानुक्तेः पिटकत्रयवत् । वक्तृदोषात्तादृशोऽप्रामाण्यं तदभावाच्छ्रुतेः प्रामाण्यमिति चेत्, कुतोऽयं विभागः सिद्धयेत् ? अष्टसहस्त्रीतात्पर्यविवरणम् 'कप्पाकप्पे परिणिट्ठियस्य ठाणेसु पंचसु ठिअस्स । संजमतवगस्स उ अविगप्पेणं तहक्कारो ॥ त्ति [आव० नि० गा० ६८८] नियुक्तिगाथया कल्प्याकल्प्यपरिनिष्ठितत्वादिगणकदम्बकवद्वक्तृवचनेऽविकल्पेन तथाकारविधाने तदितरवचने विकल्पप्राप्तावपि संविग्नपाक्षिकवचने एकान्तत एव तथाकार: प्रामाण्याभ्युपगमरूपो विधेयः, तदितरयथोक्तगुणाभाववद्वक्तृवचने तु यथा हेतुवादं भजनयेति १. छाया - कल्पाकल्प्ये परिनिष्ठितस्य स्थानेषु पञ्चसु स्थितस्य । संयमतपआढ्यस्य अविकल्पेन तथाकारः ॥१।। इति ।।
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy