________________
द्वितीयो भागः [परि०६-का० ७७-७८]
५६९ कः पुनरविसंवादो येनाविसंवादक: स्यात् ? । (भा० ) तत्त्वप्रतिपादनमविसंवादः, तदर्थज्ञानात् ।
तदर्थज्ञानं पुनः प्रस्फुटव्यवसायरूपं साक्षादसाक्षाद्वावसीयते, परमार्थतस्तस्य संशयविपर्यासानध्यवसायव्यवच्छेदफलत्वात् । तत्राविसंवादक एवाप्त इत्यवधार्यते । अनाप्तस्तु कदाचिदपि विसंवादक उच्यते, यथार्थज्ञानादिगुणस्य विसंवादकत्वायोगात् ।
(भा०) तेनातीन्द्रिये जैमिनिरन्यो वा श्रुतिमात्रावलम्बी नैवाप्तस्तदर्थापरिज्ञानात्तथागतवत् ।
नात्र निदर्शनं साधनधर्मविकलं, तथागतस्य श्रुत्यर्थधर्मापरिज्ञानात् बुद्धादेर्धर्माद्युपदेशो व्यामोहादेव केवलात् इति स्वयमभिधानात् । न चासिद्धो हेतुर्जेमिनेब्रह्मादेर्वा श्रुत्यर्थपरिज्ञानस्य सर्वथाप्यसम्भवात् । तद्धि प्रत्यक्षं वा श्रौतं वा स्यात् ? न तावत्प्रत्यक्षं तस्यासर्वज्ञत्वात् श्रुतिमात्रावलम्बितत्वाच्च ।
___ (भा०) न हि तादृशोऽतीन्द्रियार्थज्ञानमस्ति दोषावरणक्षयातिशयाभावात्।
न हि प्रतिनियतदोषावरणक्षयमात्रे सत्यपि धर्माधर्मादिसाक्षात्करणं युक्तं, तस्य तत्परिक्षयातिशयहेतुकत्वेन व्यवस्थापितत्वात् । नापि श्रौतं तदर्थपरिज्ञानं श्रुत्यविसंवादात्पूर्वमसिद्धेः ।
[मीमांसकः श्रुतिज्ञानात् परमार्थज्ञानं मन्यते किन्तु जैनाचार्याः तन्निराकुर्वन्ति ।] (भा०) श्रुतेः परमार्थवित्त्वं ततः श्रुतेरविसंवादनमित्यन्योन्यसंश्रितम् ।
न ह्यप्रसिद्धसंवादायाः श्रुतेः परमार्थपरिज्ञानं जैमिन्यादेः सम्भवति, अतिप्रसङ्गात् । नापि परमार्थवित्त्वमन्तरेण तत्त्वप्रतिपादनलक्षणमविसंवादनं यतोऽन्योन्याश्रयणं न स्यात् । ननु न श्रुतेरविसंवादात्प्रामाण्यम् । किं तर्हि ? स्वत एव, ततो न दोष इति चेत्,
अष्टसहस्त्रीतात्पर्यविवरणम्
तत्सद्भावाभ्यामन्येन वा सुपरीक्षितेन लिङ्गेनेति ज्ञेयम् । वस्तुतः सर्वत्र यथार्थवक्तृजातीयत्वमेवाप्तत्वग्राहकम्, अत एव