________________
५६८
अष्टसहस्त्रीतात्पर्यविवरणम् विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥७७॥
(भा०) युक्तीतरैकान्तद्वयाभ्युपगमोऽपि मा भूत्, विरुद्धयोरेकत्र सर्वथासम्भवात् ।
स्याद्वादन्यायविद्विषां कथञ्चित्तदनभ्युपगमात् । (भा०) तदवाच्यत्वेऽपि पूर्ववत् स्ववचनविरोधप्रसङ्गः ॥७७|| सम्प्रति युक्तीतरानेकान्तमुपदर्शयन्ति
वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितम् । आप्ते वक्तरि तद्वाक्यात्साध्यमागमसाधितम् ॥७८॥
[आप्तानाप्तयोर्लक्षणम्] कः पुनराप्तोऽनाप्तश्च ? यस्मिन् सति वाक्यात्साधितं साध्यमर्थतत्त्वमागमात् साधितं स्याद्धेतोस्तु यत्साध्यं तद्धेतुसाधितमिति विभागः सिद्ध्यतीति चेत्, उच्यते(भा०) यो यत्राविसंवादकः स तत्राप्तस्ततोऽपरोऽनाप्तः ।
अष्टसहस्रीतात्पर्यविवरणम् प्रत्यक्षस्य तैरनुमानैकप्रमाणत्वाभ्युपगमात्, यत्रैव जनयेदित्यादिन्यायेनानुमाननिश्चित एवार्थे तत्प्रामाण्यव्यवस्थितेरिति मन्तव्यम् ॥७६।।
वक्तर्यनाप्त इति वक्तर्यनाप्ते=आप्तत्वेनानिश्चिते, साध्यं तदनाप्तत्वग्रहाभावकालीनतद्वाक्यजन्यबोधविषयः, यद्धेतो:=प्रामाण्यनिश्चयहेतोः, सिद्ध्यतीति शेषः, निवत्तप्रामाण्यसंशयाधीनसंशयकं भवतीत्यर्थः, तद्धेतसाधितमच्यते आप्ते=आप्तत्वेन निश्चिते वक्तरि, तद्वाक्यात्=तद्वाक्यजन्यज्ञानविषयः, साध्यमुद्देश्यसिद्धिकमर्थजातं, स्वत एव निवृत्तसंशयत्वादागमसाधितमुच्यते, आप्तत्वानाप्तत्वग्रहश्च रागद्वेषमोहादिरूपदोषाभाव