________________
द्वितीयो भागः [ परि०६-का. ७६]
५६७ परब्रह्मण एवापौरुषेयादागमात्सिद्धिर्न पुनः कर्मकाण्डस्येश्वरादिप्रवादस्य चेति नियामकाभावात् । कथं च श्रौत्रप्रत्यक्षस्याप्रमाणत्वे वैदिकशब्दस्य प्रतिपत्तिर्यतस्तदर्थनिश्चयः स्यात् ? प्रमाणत्वे कुतोऽनुमानाभावे संवादविसंवादाभ्यां प्रमाणेतरसामान्याधिगमो यतः किञ्चिदेव श्रौत्रं प्रत्यक्षं प्रमाणं नान्यदिति व्यवतिष्ठेत? ततः कुतश्चिदागमात्तत्त्वसिद्धिमनुरुध्यमानेन प्रत्यक्षानुमानाभ्यामपि तत्त्वसिद्धिरनुमन्तव्या, अन्यथा तदसिद्धेः । [केचित् वैशेषिकाः सौगताश्च प्रत्यक्षानुमानाभ्यामेव तत्त्वसिद्धि मन्यन्ते
किन्तु जैनाचार्यास्तदपि निराकुर्वन्ति ।] प्रत्यक्षानुमानाभ्यामेव तत्त्वसिद्धिर्नागमादित्यपरे तेऽपि न सत्यवादिनः, ग्रहोपरागादेस्तत्फलविशेषस्य च ज्योति:शास्त्रादेव सिद्धेः ।
(भा० ) न च प्रत्यक्षानुमानाभ्यामन्तरेणोपदेशं ज्योतिर्ज्ञानादिप्रतिपत्तिः ।
सर्वविदः प्रत्यक्षादेव तत्प्रतिपत्तिरनुमानविदां पुनरनुमानादपीति चेत्, न, सर्वविदामपि योगिप्रत्यक्षात्पूर्वमुपदेशाभावे तदुत्पत्त्ययोगादनुमानाभाववत् । ते हि श्रुतमयीं चिन्तामयीं च भावनां प्रकर्षपर्यन्तं प्रापयन्तोऽतीन्द्रियप्रत्यक्षमात्मसात्कुर्वते, नान्यथा । तथानुमानविदामपि नात्यन्तपरोक्षेष्वर्थेषु परोपदेशमन्तरेण साध्याविनाभाविसाधनधर्मप्रतिपत्तिः सम्भवति, सर्वज्ञत्वप्रसङ्गाद्, इति चिन्तितमन्यत्र । ततो नैतावप्येकान्तौ युक्तौ ॥६॥
- अष्टसहस्त्रीतात्पर्यविवरणम् नुभवाकारस्यानुपपत्तेश्च, तस्मादुक्तोपदेशस्य रूपविशेषे पद्मरागत्वव्याप्तिग्राहकत्वेन रूपविशेषग्रहस्य च समानविशेष्यत्वप्रत्यासत्या पद्मरागत्वप्रकारकप्रत्यक्षे हेतुत्वेनोपयोगाद्रूपविशेषवान् पद्मराग इत्यस्यैकोपयोगत्वे निश्रितापायत्वं, भिन्नोपयोगत्वे च सङ्कलनज्ञानात्मकत्वं, कररेखाविशेषवान् शतवर्षजीवीत्यतोऽयं शतवर्षजीवीति ज्ञानस्येत्थमेवोपपत्तेरिति परिचितस्याद्वादरत्नाकरोपनिषदो वयं पश्यामः । रूपविशेषरेखाविशेषादिग्रहाणामननुगतत्वात्पद्मरागत्वप्रकारकप्रत्यक्षे स्वजन्यमण्युद्देश्यकपद्मरागत्वविधेयकग्रहोद्देश्यतावच्छेदकावच्छिन्नप्रकारताकग्रहविषयत्वसम्बन्धेनोपदेशत्वेनैव हेतुत्वं युक्तमित्ययमपि साम्प्रदायिकमतनिष्कर्षस्तार्किकचेतसः प्रीतिकर एवेति ध्येयम् ।
अपरे इति बौद्धादयः, तेऽपि हेतुवादप्रविष्टा इव मन्तव्याः । प्रमाणस्यापि सतः