________________
५६६
अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) किं पुनः शास्त्रोपदेशात् ? ।
इति प्रत्यक्षादपि सिद्धिरभ्यस्तविषयेऽभ्युपगन्तव्या, अन्यथा शब्दलिङ्गादिप्रतिपत्तेरयोगात् परार्थानुमानरूपाणामपि शास्त्रोपदेशानामप्रवृत्तेः ।
[वेदान्ती आगमादेव तत्त्वसिद्धि मन्यते, जैनाचार्याः तदेकान्तं निराकुर्वन्ति ।]
ये त्वाहुः—'आगमादेव सर्वं सिद्धं, तमन्तरेण प्रत्यक्षेऽपि माणिक्यादौ यथार्थनिर्णयानुपपत्तेः, अनुमानप्रतिपन्नेऽपि चिकित्सितादावागमापेक्षणात्, आगमबाधितपक्षस्यानुमानस्यागमकत्वाच्च, परब्रह्मणः शास्त्रादेव सिद्धः, प्रत्यक्षानुमानयोरविद्याविवर्तविषयत्वादागमविषये सन्मात्रात्मनि परमात्मन्येव प्रमाणत्वव्यवहरणात् अबाधिताश्चैते शास्त्रोपदेशाः सर्वं खल्विदं ब्रह्म [
] इत्यादयः, प्रत्यक्षानुमानयोस्तदविषयत्वेन तद्बाधकत्वायोगाद्' इति, तेषां विरुद्धार्थमतान्यपि शास्त्रोपदेशेभ्यः सिद्ध्यन्तु, विशेषाभावात् । सम्यगुपदेशेऽभ्यस्तत्वसिद्धिरिति चेत्, तर्हि युक्तिरपि तत्त्वसिद्धिनिबन्धनं, तत एव तेषां सम्यक्त्वनिर्णयात्, अदुष्टकारणजन्यत्वबाधवर्जितत्वाभ्यां तदुपगमात् । (भा०) न चैते युक्तिनिरपेक्षाः, परस्परविरुद्धार्थतत्त्वसिद्धिप्रसङ्गात् ।
अष्टसहस्रीतात्पर्यविवरणम् कथञ्चित् क्वापीत्यर्थः । शास्त्रोपदेशात्प्रवर्त्तते इति पुन: किं वाच्यम् । अनुमानसामान्याप्रवृत्तौ परार्थानुमानरूपविशेषप्रवृत्तेरयोगादित्यर्थः । तदेवाह वृत्तिकृत्-प्रत्यक्षादपीत्यादिना, आगमैकान्तवादियुक्तिमुपन्यस्यति-ये त्वाहुरित्यादिना ।
॥ प्रत्यक्षस्यागमोपदेशोपजीव्यत्ववादः ॥ तमन्तरेणेति 'अत्र पद्मरागत्वमुपदेशसहकृतेन्द्रियवेद्यमिति नैयायिकसम्प्रदायविदः । नव्यास्तु भिन्नप्रमाणयोरेकज्ञानाजनकत्वेन न परस्परसहकारित्वमिति पद्मरागत्वप्रत्यक्ष रूपविशेषग्रहणमेव हेतुः, रूपादिविशेषवान् मणिः पद्मराग इत्युपदेशस्तु गोसदृशो गवय इत्यतिदेशवाक्यवत् पद्मरागपदवाच्यत्वोपमितावुपयुज्यत इत्याहुः तदसत्, रूपविशेषपद्मरागत्वयोर्ग्रहस्य तुल्यसामग्रीकत्वाच्छिक्षातः पूर्वं रूपविशेषाग्रहेऽपि पद्मरागत्वाग्रहात्, स्वविशेष्यसमवेतत्वसम्बन्धेन तस्य पद्मरागत्वप्रत्यक्षहेतुत्वे सदृशपद्मरागद्वयस्थले तदविशेष्यसन्निकर्षेणापि पद्मरागत्वप्रत्यक्षापत्तेरुक्तोपदेशस्य तत्रानुपयोगे च पद्मरागतदन्यसंशयनिवृत्त्यर्थं तदाश्रयणस्योपदेशात्पद्मरागं साक्षात्करोमि न तूपमिनोमीत्यौत्तरकालिका