________________
द्वितीयो भागः [परि०६-का. ७६]
५६५
[केचित् बौद्धा हेतुना एव सर्वतत्त्वसिद्धि मन्यन्ते, जैनाचार्याः तदेकान्तं निराकुर्वन्ति ।]
तत्र हेतुत एव सर्वमुपेयतत्त्वं सिद्धं, न प्रत्यक्षात्, तस्मिन्सत्यपि विप्रतिपत्तिसम्भवात् ।
(भा०) युक्त्या यन्न घटामुपैति तदहं दृष्ट्वापि न श्रद्दधे इत्यादेरेकान्तस्य बहुलं दर्शनात् ।
अर्थानर्थविवेचनस्यानुमानाश्रयत्वात्तद्विप्रतिपत्तेस्तव्यवस्थापनायाहेत्वादिवचनात् । __ (भा०) प्रत्यक्षतदाभासयोरपि व्यवस्थितिरनुमानात्, अन्यथा सङ्करव्यतिकरोपपतेः ।
___ अर्थानर्थविवेचनस्य प्रत्यक्षाश्रयत्वासम्भवात्, इति केचित्तेषां प्रत्यक्षाद् गतिरनमानादादितोऽपि न स्यात । न च धर्मिणः साधनस्योदाहरणस्य च प्रत्यक्षादगतौ कस्यचिदनुमानं प्रवर्तते । अनुमानान्ततरात्तद्गतौ तस्यापि धादिगतिपूर्वकत्वादनुमानान्तरमपेक्षणीयमित्यनवस्था स्यात् । ततः
( भा०) कथञ्चित्साक्षात्करणमन्तरेण धादीनां
(भा०) न क्वचिदनुमानं प्रवर्तेत,
अष्टसहस्त्रीतात्पर्यविवरणम्
षष्ठे हेत्वागमैकान्तनिराकरणाय प्रक्रमः । तत्र हेतुवादैकान्तसिद्धये केषाञ्चिद् युक्तिमुपन्यस्यति इह हीत्यादिना । तन्मतं दूषयति-तेषामित्यादिना । अनुमानादितोऽपि= अनुमानप्राक्कालेऽपि, प्रत्यक्षात् प्रत्यक्षप्रमाणाद्, गतिर्ज्ञानं, पक्षादेर्न स्याद् इति योजना । न चेति तथा च प्रामाण्यसंशयमलार्थसंशयनिराकरणरूपविवेचनेऽनमानस्येव तन्मलव्याप्त्यादिपरिच्छेदे प्रत्यक्षस्याप्युपयोगाद् द्वयोस्तुल्यत्वमित्यर्थः । प्रामाण्यग्रहेऽप्यनभ्यस्तविषयेऽनुमानस्येवाभ्यस्तविषये प्रत्यक्षस्यैवोपयोगस्तत्र स्वतःप्रामाण्यग्रहस्यैवोपपादितत्वात् स्वत इत्यस्य च स्वेनैवेत्यर्थात् स्वांशे च सर्वत्र ज्ञाने प्रत्यक्षत्वेष्टेरित्यभिप्रायवानाह भाष्यकृत्कथमित्यादिना, कथञ्चित् साक्षात्करणमन्तरेण कथं 'क्वचिदनुमानं प्रवर्तते न
१. न क्वचिद् ? इति अष्टसहस्रीसम्मतः पाठः ।