SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ॥ षष्ठः परिच्छेदः ॥ सिद्धं चेद्धेतुतः सर्वं न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्वं विरुद्धार्थमतान्यपि ॥७६॥ पुष्यदकलङ्कवृत्तिं समन्तभद्रप्रणीततत्त्वार्थाम् । निर्जितदुर्नयवादामष्टसहस्त्रीमवैति सद्दृष्टिः ॥ इह हि सकललौकिकपरीक्षकैः ( भा० ) उपेयतत्त्वं व्यवस्थाप्योपायतत्त्वं व्यवस्थाप्यते । कृष्यादिषु प्रवर्तमानानां व्यवस्थितशस्याद्युपेयानामेव तदुपायव्यवस्थापनप्रयत्नोपलम्भात्, प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति प्रसिद्धेः, मोक्षार्थिनां च प्रेक्षावतां व्यवस्थितोपेयमोक्षस्वरूपाणामेव तदुपायव्यवस्थापनव्यापारदर्शनात्, अव्यवस्थितमोक्षतत्त्वानां तदुपायव्यवस्थापनपराङ्मुखत्वाच्चार्वाकादिवत् । अष्टसहस्त्रीतात्पर्यविवरणम् मन्थक्षुब्धार्णवाम्भः सजलजलधरोत्तुङ्गगङ्गाप्रवाह ध्वानस्पर्द्धाविधायी प्रसरणरसतो व्याप्नुवन् दिग्विभागान् । बोधाय ब्राह्मणानाममृतमधरयन् वीरवक्त्राद्विनिर्यन्नुच्चैः निःखेदवेदध्वनिरुपचिनुताच्छर्म तात्पर्यशुद्धः ॥१॥ वेदाः खेदाय ते ये शतपथविहितैः कर्मभिः कामनाद्यैर्हिसोद्बोधे प्रवृत्ताः शमदमरहितैः सङ्गृहीताश्च जाल्मैः । ये तूवृत्त्यादिमाङ्गान्मुनिभिरुपरतश्राद्धपाठाय क्लृप्तास्ते मन्त्रब्राह्मणाख्याः प्रभुगुणविषयाः सर्व एव प्रमाणम् ॥ [स्रग्धरा]
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy