________________
द्वितीयो भाग: [ परि० ५ - का० ७५ ]
अपेक्षैकान्तादिप्रबलगरलोद्रेकदलिनी, प्रवृद्धानेकान्तामृतरसनिषेकानवरतम् । प्रवृत्ता वागेषा सकलविकलादेशवशतः,
समन्ताद्भद्रं वो दिशतु मुनिपस्यामलमतेः ॥ [शिखरिणी]
। इत्याप्तमीमांसालङ्कृतौ पञ्चमः परिच्छेदः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
बाह्ये चाभ्यन्तरे हेतौ निश्चयव्यवहारयोः । प्रत्यक्षे च परोक्षे च विशेषो यत्कृतोऽखिलः ॥३॥
अपेक्षाद्येकान्तप्रशमजसमत्वामृतरसोल्लसच्चेतोवृत्तिर्यदमलगुणं पश्यति यमी । तमीशं स्याद्वादप्रणयनसमुज्जीवितजग
ज्जनं वन्दे मन्देतरभविकसन्देहदलनम् ॥४॥ [ शिखरिणी]
५६३
इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्याय श्रीकल्याणविजयगणिशिष्यावतंसपण्डित श्रीलाभविजयगणि शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार
पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण
पण्डित श्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे पञ्चमः परिच्छेदः सम्पूर्णः ॥