________________
५६२
अष्टसहस्रीतात्पर्यविवरणम् पेक्षिकी, पूर्वप्रसिद्धस्वरूपत्वात् । (३) स्यादुभयी, क्रमार्पितद्वयात् । (४) स्यादवक्तव्या, सहार्पितद्वयात् । (५) स्यादापेक्षिकी चावक्तव्या च, तथानिश्चयेन सहार्पितद्वयात् । (६) स्यादनापेक्षिकी चावक्तव्या च, पूर्वसिद्धत्वसहार्पितद्वयात् । (७) स्यादुभयी चावक्तव्या च, क्रमाक्रमार्पितोभयात् ।' इति सप्तभङ्गीप्रक्रियां योजयेन्नयविशेषवशादविरुद्धां
अष्टसहस्रीतात्पर्यविवरणम्
व्याप्तिरेव सिद्ध्यतीत्येतत्तात्पर्यम् । अथ व्यवहारस्य सापेक्षत्वेऽर्थस्य कुत आपेक्षिकत्वमिति चेत्, व्यवह्रियमाणस्वरूपेण तस्यापि तदविरोधात्, अत एव अभावो न सप्रतियोगिकः, किन्तु तदव्यवहार एवेति मीमांसकमतमपास्तम् । अभावव्यवहारे प्रतियोगिज्ञानजन्यतयेवाभावे प्रतियोगिज्ञानजन्यज्ञानविषयतया सप्रतियोगिकत्वस्याबाधितत्वात् । स्यादनापेक्षिकी पूर्वप्रसिद्धस्वरूपवदिति न च पूर्वप्रसिद्धस्वरूपेऽपि महत्त्वादाववधिज्ञानसापेक्षसिद्धिकत्वाद् दृष्टान्तानुपपत्तिः, महत्त्वव्यवहार एव हि तथा न तु महत्त्वमिति व्यवहारानुप्रवेशेन तस्यापेक्षिकत्वेऽपि स्वरूपतोऽतथात्वेन दोषाभावात् । यत्तु महत्त्वं न सापेक्षं, किन्तु तद्गतजातिविशेष एव, तस्य महत्त्वगतजातिसामान्यग्राहकातिरिक्तापेक्षग्रहविषयत्वेन सापेक्षत्वव्यवस्थितेः, अत एवाऽर्द्धावृतेऽवयविनि महत्त्वग्रहेऽपि तद्गतहस्तवितस्तित्वादिजात्यग्रह आवरणप्रतिबन्धादिति नैयायिकैकदेशिभिरुच्यते, तदसत, आवरणसंयोगस्य स्वाश्रयसमवेतसमवेतत्वसम्बन्धेन महत्त्वगतजातिविशेषग्रहप्रतिबन्धकत्वे आवृतानावृततुल्यवंशद्वयसन्निकर्षस्थलेऽनावृतवंशेऽपि महत्त्वविशेषाग्रहप्रसङ्गात्, जातिविशेषप्रकारकमहत्त्वग्रहे उक्तप्रतिबन्धकत्वे चावरणस्थले महत्त्वनिर्विकल्पकापत्ते१र्वारत्वाच्चेति व्यवहारानुप्रवेशेनैव महत्त्वे आवरणाभावसापेक्षत्वस्य युक्तत्वादित्यधिकं नयामृततरङ्गिण्यां निरूपितमस्माभिरिति तत एवाधिगन्तव्यम् ॥७५॥
इत्यपेक्षानपेक्षाभ्यां भङ्गसप्तकसङ्गतिः । निरूपणीया सर्वत्र स्याद्वादामलबुद्धिभिः ॥१॥ अर्थे नये प्रमाणे च तत्प्रयुक्ते बलाबले । प्रयोजनानुसारेण भावनीये मनीषिभिः ॥२॥
१. स्वरूपत्वादिति अष्टसहस्रीसम्मतः पाठः ।