________________
द्वितीयो भाग: [ परि० ५ - का० ७५ ]
धर्मधर्म्यविनाभावः सिद्ध्यत्यन्योऽन्यवीक्षया । न स्वरूपं स्वतो ह्येतत् कारकज्ञापकाङ्गवत् ॥७५॥
५६१
[धर्मधर्मिणौ कथञ्चित् स्वतः सिद्धौ स्तः कथञ्चिदपेक्षाकृतौ सिद्धौ स्तः ।]
धर्मधर्मिणोरविनाभावोऽन्योन्यापेक्षयैव सिद्ध्यति, न तु स्वरूपं तस्य पूर्वसिद्धत्वात् । स्वतो ह्येतत्सिद्धं सामान्यविशेषवत् । सामान्यं हि स्वतः सिद्धस्वरूपं भेदापेक्षान्वयप्रत्ययादवगम्यते विशेषोऽपि स्वतः सिद्धस्वरूपः सामान्यापेक्षव्यतिरेकप्रत्ययादवसीयते ।
भा० ) न केवलं सामान्यविशेषयोः स्वलक्षणमपेक्षितपरस्पराविनाभावलक्षणं स्वतः सिद्धलक्षणमपि तु धर्मधर्मिणोरपि ।
गुणगुण्यादिरूपयोः ।
(भा० ) कर्तृकर्मबोध्यबोधकवत् ।
[कारकाङ्गकर्तृकर्मवत् ज्ञापकाङ्गबोध्यबोधकवच्च ] । न हि कर्तृस्वरूपं कर्मापेक्षं कर्मस्वरूपं वा कर्त्रपेक्षम्, उभयासत्त्वप्रसङ्गात् । नापि कर्तृत्वव्यवहारः कर्मत्वव्यवहारो वा परस्परानपेक्षः, कर्तृत्वस्य कर्मनिश्चयावसेयत्वात्, कर्मत्वस्यापि कर्तृप्रतिपत्तिसमधिगम्यमानत्वात् । एतेन बोध्यबोधकयोः प्रमेयप्रमाणयोः स्वरूपं स्वतः सिद्धं ज्ञाप्यज्ञापकव्यवहारस्तु परस्परापेक्षासिद्ध इत्यभिहितम् । तद्वत्सकलधर्मधर्मिभूतानामर्थानां (१) स्यादापेक्षिकी सिद्धि:, तथा व्यवहारात् । (२) स्यादनाअष्टसहस्त्रीतात्पर्यविवरणम्
धर्मेत्यादि धर्मधर्मिणोर्न विना भावो यस्येति व्युत्पत्त्याऽविनाभावो व्यवहारःअन्योन्यवीक्षया=अन्योन्यापेक्षया, सिद्ध्यति न तु स्वरूपं, हि = यतः, एतत् = स्वरूपं, कारकज्ञापकाङ्गवत्=कर्तृकर्मबोध्यबोधकवत् स्वत एव सिद्धं, तथा च धर्मधर्म्यादेः स्वरूपतोऽनपेक्षत्वं व्यवहारतश्च सापेक्षत्वमित्यनैकान्तः एव विजयते इति कारिकासङ्क्षेपार्थः । तद्वत् सकलेत्यादि यद्यपि केचिद्भावाः प्रतिनियतव्यञ्जकव्यङ्ग्याः केचिच्च स्वतः सिद्धा इत्येवं विषयविभागेन सापेक्षानपेक्षभावोऽन्यत्र शरावकर्पूरगन्धन्यायेन पूर्वाचार्यैर्व्यवस्थापितः, तथापि स प्रातिस्विकरूपापेक्षया, धर्मधर्मिभावादिना तु सर्वत्र तद्