________________
अष्टसहस्त्रीतात्पर्यविवरणम् प्रत्ययविशेषोऽसिद्धः परीक्षकाणां यत सत्तासमवाययोरनेकत्वं न स्यात् । यदि पुनः प्राक्कालादिविशेषणान्येव भिद्यन्ते समवायिनश्च न पुनः सत्ता समवायश्चेति मतं तदा कथमभावोऽपि भिद्येत ? तद्विशेषणानामेव भेदात् । विरुद्धधर्माध्यासात्तद्भेदे सत्तासमवायभेदोऽपि तत एव । ततो विश्वरूपा सत्तास्तु असत्तावत् । तथा समवायोऽपि । न चैवमेकत्वविरोधः सत्तायाः सम्भावनीयो, विशेषतोऽनेकत्वेऽपि सामान्यार्पणादेकत्वाविरोधात्, सद्विशेषेष्वेव सत्सामान्यप्रतीतेरसद्विशेषेष्वसत्सामान्य प्रतीतिवत् । समवायविशेषेषु समवायसामान्यप्रतीतिश्च न विरुद्धा, संयोगविशेषेषु तत्सामान्यप्रतीतिवद् इति सर्वं सामान्यविशेषात्मकं सिद्धम् । न च सामान्यस्य विशेषस्य चैकशः सामान्यविशेषात्मकत्वेऽनवस्थानमन्यथा सर्वं सामान्यविशेषात्मकमिति प्रतिज्ञा हीयते, तयोरन्योन्यात्मकत्वसिद्धेर्द्रव्यार्थार्पणया परस्परतो भेदाच्च पर्यायार्थार्पणया सापेक्षत्वमात्रस्य तयोरिष्टेः सामान्यस्य हि स्वविशेषादपोद्धृतस्य विशेषान्तरात्मकत्वे विशेषस्य च स्वसामान्यान्निर्धारितस्य सामान्यानन्तरात्मकत्वेऽनवस्था स्यान्नान्यथा । भिन्नस्य च सामान्यस्य विशेषाद्विशेषस्य च सामान्यादितरनिरपेक्षत्वे प्रतिज्ञाहानिः प्रसज्यते, न पुनरितरथा इति स्याद्वादिनां सर्वं सुस्थम् वैशेषिकाणां तु तदुभयप्रकारानभ्युपगमादुक्तदोषानुषङ्ग एव ॥६५॥
तेषां हि
५३८
सर्वथानभिसम्बन्धः सामान्यसमवाययोः ।
ताभ्यामर्थो न सम्बद्धस्तानि त्रीणि खपुष्पवत् ॥६६॥
[सामान्यसमवायपदार्थस्त्रयोऽपि न सिद्ध्यन्ति वैशेषिकमते । ]
समनुषज्यन्ते इति शेषः तथा हि
(भा०) सामान्यसमवाययोः परस्परतः सम्बन्धासम्भवात् ताभ्या
अष्टसहस्त्रीतात्पर्यविवरणम्
स्त्विति सिद्धं द्वयोस्तुल्यकक्षतया विश्वरूपत्वम् । भावत्वाऽभावत्वयोरेवैक्यं न तु भावभावयोरिति तु मन्दं, विशेषणांश इव विशेष्यांशेऽप्यनुगतप्रतीतेस्तौल्याद्विशेषणभेदेन भेदस्य चोभयत्राविशेषात् सामान्यविशेषोपयोगाभ्यां वैश्वरूप्यस्यैव सिद्धेरित्यभिप्रायवानाह-यदि पुनरित्यादिना ॥६५॥