________________
द्वितीयो भागः [परि० ४-का० ६५]
५३७ नैकदेशेन वानभ्युपगमात् पश्चाद्भवनानिष्टेः शाश्वतिकत्वाच्च' इति तदेतदपि व्याहततरं, सर्वगतस्य सामान्यस्य समवायस्य चैकस्य स्वाश्रयेषु प्रत्येकं परिसमाप्तेरसम्भवात् तबहुत्वापत्तेराश्रयस्वरूपवत् । न च सर्वत्राविच्छेदात्तदेकत्वं, तदसिद्धेः प्रागभावादिषु सत्तासमवायासम्भवाद्विच्छेदोपलम्भात् ।
[सामान्यसमवायचर्चाप्रसङ्गे प्रागभावादीनां विचारः ।] प्रागभावादीनां सर्वदा भावविशेषणत्वान्न तत्र तद्विच्छेद इति चेत्, नैवमभावस्यापि सर्वगतत्वैकत्वप्रसङ्गात्, सर्वत्रासत्प्रत्ययाविशेषादविच्छेदाविशेषाच्च । यथैव हि द्रव्यादिषु सत्प्रत्ययोऽविशिष्टस्तथा पररूपतोऽसत्प्रत्ययश्च । यथा चाभावस्य शश्वद्भावपरतन्त्रत्वं तथा भावस्याभावपरतन्त्रत्वमपि तदविच्छेदसाधनं, पररूपेणासत एव भावस्य प्रतीतेरन्यथा सर्वसाधैर्यप्रसङ्गाद्भावविशेषव्यवस्थितिविरोधात् । नन्वभावस्यैकत्वे कार्यस्य जन्मनि प्रागभावाभावे प्रध्वंसेतरेतरात्यन्ताभावानामप्यभावप्रसङ्गादनन्तत्वसर्वात्मकत्वात्यन्ताभावापत्तिः । प्रध्वंसस्य चाभावेऽनुत्पन्नस्य कार्यस्य प्रागभावस्याप्यभावादनादित्वप्रसङ्गः प्राक् पश्चादितरेतरात्यन्त विशेषणानुपपत्तिश्च तदभेदाद् इति कश्चित्, तस्यापि कथं सत्त्वैकत्वे समवायैकत्वे च कस्यचित्सत्तासमवाये सर्वस्य स न भवेत् ? तथा सति भावस्योत्पत्तेः प्रागपि प्रध्वंससमयेऽप्यभावान्तरेऽपि चात्यन्तसत्त्वसिद्धः कुतः प्रागभावादिभेदस्य व्यवस्था स्यात् ? प्रत्ययविशेषात्तद्व्यवस्थायां सत्तासमवायस्य भेदव्यवस्थास्तु तत एव । न हि प्रध्वंसात्प्राक्कार्यस्य सत्तासमवायः प्रागभावात् पश्चादितरस्मादितरत्रेत्यादि
- अष्टसहस्त्रीतात्पर्यविवरणम् - अनु पश्चात्, इतः सकाशान्न यातीत्यर्थः । भावविशेषणत्वाद्= भावविनिर्मुक्तबुद्ध्यविषयत्वात्, भावपरतन्त्रत्वं उक्तभावविशेषणत्वमेव, एवमग्रेऽभावपरतन्त्रत्वमपि व्याख्येयम् । सत्तैकत्वेऽसत्तैकत्वमपि स्यादित्युक्तं तत्रासत्तैकत्वे बाधकमाशङ्कते-नन्वभावस्यैकत्व इत्यादिना । एवं वादिनः सत्तैकत्वेऽपि बाधकं तुल्यमित्याह-तस्यापीत्यादिना, प्रत्ययविशेषात्=प्राङ् नासीदित्यादिप्रतीतिभेदात्, तद्व्यवस्थायां प्रागभावादिभेदव्यवस्थायां, तत एव प्रत्ययविशेषादेव, न हीत्यादिना प्रागासीत् पश्चाद्भविष्यतीत्येवं कालभेदात्, इतरस्माद् देशादितरत्रास्ति इत्यनेन च देशभेदात् प्रतीतिसाक्षिकः सत्तासमवायभेद उपदर्शितः । यदि च तत्तत्कालदेशरूपविशेषणभेदेऽपि सत्ताया न भेदः, तर्हि तद्वदेवाऽभावस्यापि स मा भूत्, विरुद्धधर्माध्यासेनासत्ताभेदे च सत्ताभेदोऽपि तद्वदेवा