________________
५३६
अष्टसहस्त्रीतात्पर्यविवरणम् बद्धत्वादसम्बद्धत्वं, तदुपचारनिमित्तं तु समवायिषु सत्सु तस्येहेदमिति प्रत्ययकारित्वमिति मतं, तेषां
(भा०) प्रत्येकं परिसमाप्तेराश्रयाभावे सामान्यसमवायोरसम्भवादुत्पत्तिविपत्तिमत्सु कथं वृत्तिः ? ।
क्वचिदेकत्र नित्यात्मन्याश्रये सर्वात्मना वृत्तं सामान्यं समवायश्च तावत् । (भा०) उत्पित्सुप्रदेशे प्राङ्नासीद्, अनाश्रितत्वप्रसङ्गात् । (भा०) नान्यतो याति,
सर्वात्मना पूर्वाधारापरित्यागादन्यथा तदभावप्रसङ्गात्, नाप्येकदेशेन, सांशत्वाभावात् ।
(भा०) स्वयमेव पश्चाद्भवति, स्वप्रत्ययकारित्वात् । (भा०) आश्रयविनाशे च न नश्यति, नित्यत्वात् । (भा० ) प्रत्येकं परिसमाप्तं च इति व्याहतमेतत् ।
स्यान्मतं-'सत्तासामान्यं तावद् द्रव्यादिषु प्रत्येकं परिसमाप्तं, सत्प्रत्ययाविशेषात् । सर्वत्रास्ति च, सत्यप्रत्ययाविच्छेदात् । समवायोऽपि सर्वत्र विद्यते, समवायिनां शश्वदविच्छेदान्नित्यानां, जन्मविनाशवतां तु केषाञ्चिदुत्पित्सुदेशेषूत्पद्यमानानामेव सत्तासमवायित्वसिद्धेः निष्ठासम्बन्धयोरेककालत्वात् [ ] इति वचनात् । प्रकृतदूषणानवकाशः, सत्तासमवाययोः प्रागसत्त्वाभावात् तत्रान्यतश्चागमनस्य सर्वात्म
- अष्टसहस्त्रीतात्पर्यविवरणम् मार्थतोऽनुपचारादन्वितत्वं समवायस्य तु समवायान्तराभावादुपचारात्, तथा च समवायिषु तथा सामान्यवदप्रतिबद्धत्वाद् असम्बद्धत्वमिति योजना । 'नान्वितो यातीति
१. नान्यतो इति अष्टसहस्रीसम्मतः पाठः ।