________________
५३५
द्वितीयो भागः [ परि० ४-का० ६५] समवायिभिः समवायः सम्बन्धो युक्तिमान्, कालादेरपि सम्बन्धत्वप्रसङ्गात् । सम्बद्ध एव हि स्वसम्बन्धिभिः संयोगः सम्बन्धो दृष्टस्तस्य तैः कथञ्चित्तादात्म्यसम्बन्धात् । समवायोऽपि विशेषणविशेष्यभावसम्बन्धात्समवायिभिः सम्बद्ध इति चेत्, न, तस्यापि विशेषणविशेष्यभावान्तरेण स्वसम्बन्धिभिः सम्बन्धेऽनवस्थाप्रसङ्गात्, अन्यथा सम्बन्धत्वविरोधात् । तस्य सम्बन्धिभिः कथञ्चित्तादात्म्ये कार्यकारणादीनामपि तदेवास्तु । किं समवायेन पदार्थान्तरभूतेन सत्तासामान्येनेव कल्पितेन ? फलाभावात् प्रागसतः सत्तासमवायात् कार्यस्योत्पत्तेः सफलमेव तत्परिकल्पनमिति चेत्, नानुत्पन्नस्य सत्तासमवायासम्भवात्, उत्पन्नस्यापि तद्वैयर्थ्यात्, स्वरूपलाभस्यैव स्वरूपसत्तात्मकत्वात्, स्वरूपेणासतः सत्तासम्बन्धेऽतिप्रसङ्गात् ॥६४॥
यदि पुनरुत्पद्यमानमेव कार्यं सत्तासमवायीष्यते, प्रागसतः सत्तासमवाय उत्पाद इति वचनात् [ ] केवलस्य समवायस्य सत्तासामान्यवन्नित्यत्वादुत्पाद इति ज्ञानाभिधानाहेतुत्वादिति मतं तदा
सामान्यं समवायश्चाप्येकैकत्र समाप्तितः । अन्तरेणाश्रयं न स्यान्नाशोत्पादिषु को विधिः ॥६५॥
[यौगाभिमतसामान्यसमवाययोनिराकरणम्] येषां परमार्थतः सामान्यस्याश्रितत्वमुपचारात्समवायस्य समवायिषु तत्राप्रति
अष्टसहस्त्रीतात्पर्यविवरणम् वायाख्यः समवायिभिरयुक्तोऽसम्बद्ध इति न युक्तो=न घटमानक इति, समवास्यैवाभावाद्दूरे समवायिनां स्वातन्त्र्यपारतन्त्र्यचर्चेति भावः । एवं च स्यान्मतमिति शङ्काया अनुपमर्दान्नासंलग्नकत्वमिति द्रष्टव्यम । स्वरूपलाभस्यैव स्वरूपसत्तात्मकत्वादिति, तदिदमाहः-न हि देशकालयोः सत्त्वं विहायान्यत सत्त्वम, अभावेऽपि स्वकालदेशकतं सत्त्वमभ्युपगम्यत एव, इदानीं भूतले घटाभावोऽस्तीति प्रतीतेः, अभावव्यावृत्तसद्व्यवहारस्तु भावत्वनिबन्धन एव इति, [ ] । अतिप्रसङ्गादिति परम्परासम्बन्धेन सामान्यादाविवाभावेऽपि सद्व्यवहारप्रसङ्गादित्यर्थः । स्वरूपसत्तयैव सद्व्यवहारोपपत्तौ चालं पदार्थान्तरपरिकल्पनयेति रहस्यम् ॥६४॥
येषामिति येषां वैशेषिकाणां सामान्यस्य समवायसम्बन्धेन सम्बद्धत्वात् पर