________________
५३४
अष्टसहस्त्रीतात्पर्यविवरणम् भावात्समानदेशत्वमपि न भवेदिति दोषोद्भावनात् । व्यणुकस्य परमाणुदेशत्वात्परमाणोरनंशस्याप्याश्रयान्तरस्थत्वात्तयोरसमानदेशतैवेति चेत्, न, तथा लौकिकदेशापेक्षया समानदेशत्वोपगमस्य प्रसङ्गात् । स च मूर्तयोर्न भवेदिति सूक्तमेव दूषणम् । कथमेवमनेकान्तवादिनामेकाकाशप्रदेशेऽसङ्ख्येयादिपरमाणूनामवस्थानं न विरुद्ध्यते इति चेत्, तथावगाहनविशेषादेकत्वपरिणामादिति ब्रूमहे । नोकं मूर्तिमद्रव्यमेकत्र देशेऽवतिष्ठमानं विरुद्ध नाम, अतिप्रसङ्गात् । संयोगमात्रेण तु स्थितानामेकत्वपरिणामनिरुत्सुकानां नैकाकाशप्रदेशेऽवस्थानमवगाहनविशेषाभावादनेकाकाशप्रदेशवृत्तित्वसिद्धेः इति स्याद्वादिनां न किञ्चिद्विरुद्धम् ॥६३॥ स्यान्मतम्
आश्रयाश्रयिभावान्न स्वातन्त्र्यं समवायिनाम् । इत्ययुक्तः स सम्बन्धो न युक्तः समवायिभिः ॥६४॥
समवायेन
(भा०) कार्यकारणादीनां परस्परं प्रतिबन्धात् कुतः स्वातन्त्र्यं यतो देशकालिभेदेन वृत्तिरिति चेत्,
स तर्हि समवायिषु समवायान्तरेण वर्तते स्वतो वा ?
(भा०) समवायस्य समवायान्तरेण वृत्तावनवस्थाप्रसङ्गात्, स्वतो वृत्तौ द्रव्यादेस्तथोपपत्तेः ।
समवायवैयर्थ्यात् कार्यकारणादीनां कुतः प्रतिबन्धः ? यदि पुनरनाश्रितत्वात् प्रतिबन्धान्तरानपेक्ष इष्यते तदापि
(भा० ) असम्बद्धः समवायः कथं द्रव्यादिभिः सह वर्तेत, यतः पृथक्सिद्धिर्न स्यात् ? तस्मादयुक्तः सम्बन्धो न युक्तः समवायिभिः । न ह्यप्रतिबद्ध एव
- अष्टसहस्त्रीतात्पर्यविवरणम् - प्रतिपादनात् सर्वपुद्गलद्रव्याणां चानन्तत्वादित्यालोचनीयं स्वसमयरहस्यविद्भिः ॥६३।।
आश्रयेत्यादि उत्तरार्द्ध इतिस्तथापीत्यर्थे, तथा च तथापि स सम्बन्धः सम