________________
५३३
द्वितीयो भागः [ परि. ४-का० ६३]
देशकालविशेषेऽपि स्याद् वृत्तिर्युतसिद्धवत् ।
समानदेशता न स्यान्मूर्तकारणकार्ययोः ॥६३॥ नन्वात्माकाशयोरत्यन्तभेदेऽपि देशकालाभ्यां भेदाभावान्न ततः कार्यकारणादीनां तद्भेदः सिद्ध्यति, यतो युतसिद्धवद् वृत्तिः स्यादिति चेत्, न, तयोरपि सद्दव्यत्वादिना भेदाभावादत्यन्तभेदासिद्धरभिन्नदेशकालत्वाविरोधात् । परस्यापि सर्वमूर्तिमद्रव्येषु युगपत्संयोगवृत्तेरभ्युपगमात् तयोरत्यन्तभेदानिष्टेर्देशकालाभ्यामभेदाविरोधे तथैवावयवावयव्यादेस्ताभ्यामभेदोऽस्त्वविरुद्धः । स च कथञ्चिदभेदसाधनः स्यात्, न चासाविष्यते, अपसिद्धान्तप्रसङ्गात् ।
(भा० ) तस्मादङ्गाङ्ग्यादेरत्यन्तभेदात् तद्देशकालविशेषेणापि वृत्तिः प्रसज्येत घटवृक्षवत् । वर्णादिभिरनैकान्तिकत्वमित्ययुक्तं, तद्व्यतिरेकैकान्तानभ्युपगमात् ।
यथैव हि वर्णरसगन्धस्पर्शानां स्वाश्रयादत्यन्तभेदो नेष्टो दृष्टो वा तथा परस्परतोऽपीति । नाप्येतैः पक्षकदेशात्मभिर्व्यभिचारो नामातिप्रसङ्गात् । यदि पुनः कार्यकारणादीनां समानदेशकालत्वमुररीक्रियते तथैव सिद्धान्तावधारणादिति मतं तदापि
(भा० ) अवयवावयविनोः समानदेशे वृत्तिर्न भवेत्, मूर्तिमत्त्वात्खरकरभवत् ।
मूर्तयोः समानदेशत्वविरोधात् । वातातपयोः समानदेशत्वदर्शनादविरोध इति चेत्, न, तयोः स्वावयवदेशयोरवयविनोरभ्युपगमात् । तन्तुपटयोरपि स्वावयवदेशत्वात्समानदेशत्वाभावो न दोष इति चेत्, न, परमाणुव्यणुकयोभिन्नदेशत्वा
अष्टसहस्त्रीतात्पर्यविवरणम् तथैव युगपत्संयोगवृत्त्यादिनैव, अभेदसाधनो=अभेदव्यवहारसाधनः तथा उक्तवदभ्युपगमे । एकत्वपरिणामनिरुत्सुकानामिति, यद्यपि द्रव्यत एकत्वपरिणामनिरुत्सुकानामप्यानुपूर्व्यनानुपूर्व्यवक्तव्यद्रव्याणामनन्तानामेकाकाशप्रदेशावस्थितिरिष्यते, तथापि एकप्रदेशावगाढानां तावतां तेषां क्षेत्रकृतमेकत्वमादायोक्ताविरोधो भावनीयः । युक्तं चैतत्, एकप्रदेशावगाढानामेव क्षेत्रतोऽनानुपूर्वीद्रव्यत्वात् तेषां चासङ्ख्येयानामेव सिद्धान्त