________________
५३२
अष्टसहस्त्रीतात्पर्यविवरणम् कथञ्चित्तादात्म्यस्यैवाभ्युपगमनीयत्वात्, तदेकार्थसमवायस्य कथञ्चिदेकद्रव्यतादात्म्यादपरस्यासम्भवात्, सामान्यस्यैवानुवृत्तव्यावृत्तप्रत्ययहेतुत्वेन सामान्यविशेषोभयाकारस्येष्टत्वाच्च । न तयोराकारयोरन्यत्रैकार्थे समवायः परस्परं वा शक्यो वक्तुं, यतस्तद्वदवयवावयव्यादीनां कथञ्चित्तादात्म्यं वृत्तिः प्रकृतदूषणोपद्रुता स्यात् । किञ्चावयवादिभ्योऽवयव्यादीनामत्यन्तभेदे देशकालाभ्यामपि भेदः स्यात् ॥६१-६२॥
अष्टसहस्त्रीतात्पर्यविवरणम्
समवेतशून्यधर्मसमवायीति व्याप्तिरात्मत्वमादाय घटपटादिव्यावृत्तात्मादाववधारिता । अत्र सत्तादिकमादाय सिद्धसाधनवारणाय परस्परासमवेतेति, एकत्वादिकमादाय तद्वारणाय समवेतशून्येति, प्रमेयत्वादिकमादाय तद्वारणाय समवायीति, अभावे व्यभिचारवारणाय हेतौ समवायित्वे सतीति, घटादावभावव्यावृत्तिसत्त्वेनाभावसमवेतत्वाप्रसिद्ध्या तदभावाप्रसिद्धाप्यत्वासिद्धिः स्यादिति तद्वारणाय हेतौ समवायित्वं यद्व्यक्ते विशेषणम्, अनुपादेयमेव वा तत्, साध्ये परस्परासमेतत्वं परित्यज्य तत्स्थाने स्वासमवायितत्वेत्यस्य वक्तव्यत्वात् । साध्ये समवायित्वं स्वाश्रयसमवेतत्वादिपरंपरासाधारणं, नातः सजातीयघटद्वये व्यभिचारः, विशेषमादाय तत्रापि साध्यसत्त्वात् समवायित्वे सतीत्यपहाय नित्यद्रव्यत्वे सतीति वा वक्तव्यं, तथा च तादृशव्याप्तिबलात् सजातीयनित्यद्रव्ययोः परस्परासमवेतसमवेतशून्यधर्मसिद्धावर्थादतिरिक्तविशेषसिद्धिरिति चेत्, न, अप्रयोजकत्वेनैतव्याप्त्यसिद्धेः, अन्यथा विशेषान्यत्वमपि साध्ये निवेश्य पदार्थान्तरमपि साधयतो मुखमुद्रणस्याशक्यत्वापत्तेः । कथं चैवं नित्यगुणव्यक्तीनां परस्परव्यावृत्तत्वं ? तासु विशेषानभ्युपगमात्, आश्रयविशेषात्तद्विशेषाभ्युपगमे तु नित्यगुणाश्रित एव विशेषपदार्थोऽस्तु आश्रितविशेषाच्चाश्रयविशेष, इत्येव किं न स्यात् ? स्वाश्रयसमवेतत्वेन विशेषस्य व्यावर्त्तकत्वे च परमाण्वादिगतसत्तासामान्यस्यापि स स्वभावं त्याजयेत् । अपि चैवं चित्रज्ञानादावांशिकभेदनिर्वाहार्थमेकव्यक्तावपि विशेषः सिद्ध्येत्, स च सिद्ध्यन् विशेषपदोक्तां पर्यायमर्यादां नातिक्रामतीति द्रव्यपर्यायतया स्वतोऽनुवृत्तिव्यावृत्तिस्वभावं वस्त्वकामेनापि प्रतिपत्तव्यं । नित्यद्रव्यदृष्टान्तेन सर्वत्र स्वतोव्यावृत्तत्वं स्वीकुर्वन् शिरोमणिः पुनरेकदृगेव, अन्यथा विशेषमिव सामान्यमतिरिक्तमपश्यन् स्वतोऽनुवृत्तत्वमपि कथं न स्वीकुर्याद् ? इति सुस्वीकारितमाचार्येण सामान्यविशेषयोः कथञ्चित्तादात्म्यमिति भावनीयम् । भेदः स्यादिति अवयव्यादयोऽवयवादिभ्यो भिन्नाः स्युर्देशकालाभ्यामत्यन्तभिन्नत्वात्, घटपटवदित्यत्रापादनं बोध्यम् ॥६१-६२।।