________________
द्वितीयो भागः [ परि० ४-का० ६२]
५३१ भेदपक्षस्य बाधकम् इति तत्र प्रवर्तमानो हेतुः कालात्ययापदिष्ट एव, प्रत्यक्षविरुद्धत्वाच्च पक्षस्यावयवावयव्यादीनां कथञ्चित्तादात्म्यस्यैव साक्षात्करणात् । नन्वेवमपि वृत्तेर्दोषो यथोपवर्णितः स्याद्वादिनां प्रसज्यते इति चेत्,
(भा०) नायं प्रसङ्गोऽनेकान्ते, कथञ्चित्तादात्म्यावेद्यवेदकाकारज्ञानवत् ।
यथैव हि ज्ञानस्य वेद्यवेदकाकाराभ्यां तादात्म्यमशक्यविवेचनत्वात् किमेकदेशेन सर्वात्मना वेति विकल्पयोर्न विज्ञानस्य सावयवत्वं बहुत्वं वा प्रसज्यतेऽनवस्था वा, तथावयव्यादेरप्यवयवादिभ्यस्तादात्म्यमशक्यविवेचनत्वादेव नैकदेशेन प्रत्येकं सर्वात्मना वा यतस्ताथागतः सर्वथा भेदे इवावयवावयव्यादीनां कथञ्चित्तादात्म्येऽपि वृत्तिं दूषयेत् ।
[वैशेषिकोऽपि जैनस्य कथञ्चित्तादात्म्ये दोषारोपणं कर्तुं न शक्नोति ।]
एतेन वैशेषिकोऽपि न कथञ्चित्तादात्म्ये वृत्तिविकल्पादिदूषणमापादयितुमीशः, सामान्यविशेषवत्तत्र तदनवकाशात् । न ह्यपरसामान्यं व्यावृत्तिबुद्धिहेतुत्वाद्विशेषाख्यामपि लभमानमपह्नोतुं शक्यं, तस्य सामान्यैकरूपत्वेऽपरविशेषाभावप्रसङ्गात्, तदपरविशेषरूपत्वेऽपरसामान्याभावापत्तेः, तदुभयरूपत्वे सामान्यविशेषरूपयोः
- अष्टसहस्रीतात्पर्यविवरणम्
निरन्तरोभयद्रव्यनिमित्तादेव संयोगव्यवहारोपपत्तेरनन्तरपरम्परसंयोगभेदस्य चान्यथानुपपत्तेरिति भावः । ननु वृत्तिविकल्पदोषः स्याद्वादेऽपि किं न स्यादित्याशक्य भेदाभेदशबलैकवस्तुस्वरूपत्वे देशकात्य॑वृत्तिव्यवहारस्य चित्रज्ञानसामान्यविशेषदृष्टान्तेन यथाविवक्षं सम्मिलितस्यैवोपपत्तेर्न तदोषावकाश इति समाधित्सुराह-नन्वेवमपीत्यादिना ।
॥ विशेषवादः॥ तदुभयरूपत्व इति न च पारिभाषिकमुभयरूपत्वमुभयपदार्थतादात्म्यमापादयितुमनीश्वरमिति शङ्कनीयम्, अनुवृत्तिव्यावृत्तिबुद्धिहेतुतया सिद्धस्य पदार्थद्वयस्याऽर्थतस्तादात्म्यापादनाविरोधात्, अन्त्यविशेषस्य तु विशेषोऽपि न पदार्थान्तरं मानाभावाद्विनापि व्यावर्त्तकधर्मं विशेषाणामिव नित्यानामपि द्रव्याणां स्वत एव व्यावृत्तत्वात्, योगिनो विशेषमीक्षन्ते प्रत्यक्षत एवेति चेत्, त एव तर्हि संशयपथं पृच्छ्यन्तां किमु तेऽतिरिक्तं विशेषमीक्षन्ते न वा ? इति' [ ] ग्रन्थेन पदार्थतत्त्वविवेके शिरोमणिभद्राचार्यैरेव निराकरणात् । अथ समवायित्वे सति समवायियव्यक्तेर्यव्यावृत्तं यन्नित्यं तत्परस्परासमवेत