________________
५३०
अष्टसहस्त्रीतात्पर्यविवरणम् कथमत्रैवेहेदमिति प्रत्ययं कुर्यात् न पुनः कर्मादिषु भेदाविशेषेऽपीति न बुद्ध्यामहे । तैरेव समवायिभिर्विशेषणविशेष्यभावसिद्धेः समवायस्य तत्रैवेहेदमिति प्रत्ययोत्पत्तिर्न तु कर्मादिषु, तदसिद्धेरिति चेत्, स एव कुतः सर्वत्र न स्यात् ?
तागदृष्टविशेषनियमादिति चेत्, किं विशेषणविशेष्यभावेन समवायेन संयोगेन वा ? तादृगदृष्टविशेषादेव समवायविशिष्टाः समवायिन इति प्रत्यस्येहेदमिति विज्ञानस्यात्रेदं संयुक्तमिति बुद्धेश्च जननप्रसङ्गात् । सर्वस्य वा प्रत्ययविशेषस्यादृष्टविशेषवशवर्तित्वसिद्धेः किं पदार्थभेदप्रभेदपरिकल्पनया ? इति विज्ञानवादप्रवेश: स्यात्, तस्यैवादृष्टविशेषत्वसिद्धेः, चेतना कर्मेति विज्ञानवादिभिरपि प्रतिपादनात् । तेषां वासनाविशेष एव ह्यदृष्टम्, स च पूर्वविज्ञानविशेषः इति न विज्ञानमात्राददृष्टमन्यत् स्यात् । ननु च नाप्रबुद्धा वासना प्रत्ययविशेषं प्रसूते सकृत्सर्वप्रत्ययविशेषप्रसङ्गात् । प्रबुद्धा तु तमुपजनयन्ती प्रबोधहेतूनपेक्षते । ते च बहिर्भूता एवार्थाः इति न विज्ञानमात्रं तत्त्वमनुषज्यते इति चेत्, न विज्ञानविशेषादेव वासनाप्रबोधस्य सिद्धेः तदभावे बहिरर्थस्य सत्तामात्रेण तदहेतत्वादन्यथातिप्रसङ्गात । न च नीलादिविज्ञानादेव तद्वासनाप्रबोधस्तत्प्रबोधादेव नीलादिज्ञानमिष्यते, यतः परस्पराश्रयः स्यात्, तदधिपतिसमनन्तरादिविज्ञानानामेव नीलादिज्ञानजनकानां तद्वासनाप्रबोधकत्वात् तद्वासनानामपि तत्कारणविज्ञानेभ्यः प्रबोधोपगमात् इत्यनादिरयं वासनासरित्परिपतितस्तत्प्रबोधप्रत्ययसार्थस्तद्विज्ञानप्रवाहश्च इति किं बहिरथैः ? कल्पयित्वाप्येतान्विज्ञानानि प्रतिपत्तव्यानि, तैर्विना तद्व्यवहाराप्रसिद्धः सत्सु च तेषु बहिरर्थाभावेऽपि स्वप्नादिषु तद्व्यवहारप्रतीतेरलं बाह्यार्थाभिनिवेशेन । ततो बहिरर्थं व्यवस्थापयितुमनसा नादृष्टमात्रनिमित्तो विशेषणविशेष्यत्वप्रत्ययोऽनुमन्तव्यः, तस्य द्रव्यादिप्रत्ययवद् बहिरर्थविशेषविषयत्वस्यावश्यमाश्रयणीयत्वात् । तथा चानवस्थानात् कुतः संयोगिभ्यां संयोगोऽर्थान्तरभूतः समवायवृत्त्या तयोरिति व्यपदिश्येत ? स एव च स्थाल्यां दध्नो वृत्तिरिति न तेनानैकान्तिको हेतुः स्यात् । तत एव न विरुद्धः, सर्वथार्थान्तरभूतस्य क्वचिद् वृत्त्युपलब्धेरभावात् । ततो निरवद्यमिदमनुमानं
- अष्टसहस्रीतात्पर्यविवरणम्
तदात्मकत्वेन विरोधादतिप्रसङ्गस्य च कालघटितसम्बन्धेन निरासादित्यर्थः । तथा चानवस्थानादिति संयोगतत्सम्बन्धतत्सम्बन्धादिचिन्तयाऽनिष्टापत्तेरित्यर्थः । कत इति