________________
द्वितीयो भागः [ परि. ४-का० ६२]
५२९ तर्हि ? वर्तते एवेति चायुक्तं, प्रकारान्तराभावात् ।
[वैशेषिक: समवायेनावयविनं स्वावयवेषु मन्यते तस्य निराकरणम् ।]
ननु च समवाय एव प्रकारान्तरं वर्तते, समवैतीति सम्प्रत्ययात्, तद्व्यतिरेकेण वृत्यर्थासम्भवादिति चेत्, न, तत्रैव विवादात् । एतदेव हि विचार्यते, किमेकदेशेन समवैति प्रत्याश्रयं सर्वात्मना वाऽवयवादिष्ववयव्यादिः ? गत्यन्तराभावादिति । तत्र च निगदितो दोषः । तदेवं कार्यगुणसामान्यानां स्वाश्रयेभ्यो विवादापन्नेभ्यो नैकान्तेनान्यत्वं, तत्र वृत्त्युपलब्धेः । यस्य तु यतोऽन्यत्वैकान्तस्तस्य तत्र न वृत्त्युपलब्धिः । यथा हिमवति विन्ध्यस्य । वृत्त्युपलब्धिश्चावयव्यादेः स्वाश्रयेषु । तस्मान्नैकान्तेनान्यत्वम् इत्यनुमानेन तन्नानात्वपक्षस्य बाधितत्वात् कालात्ययापदिष्टो भिन्नप्रतिभासत्वादिति हेतुः । नन्विदमनुमानमसम्यक्, स्थाल्यां दध्नानै कान्तिकत्वात् ततोऽन्यस्यापि दध्नस्तत्र वृत्त्युपलब्धेः संयोगो हि वृत्तिरर्थान्तरभूतयोरेव प्रतीयते नान्यथेति न मन्तव्यं, संयोगिनोः संयोगपरिणामात्मनोः सर्वथान्यत्वासिद्धेरन्यथा तदभावप्रसङ्गात् । ताभ्यां भिन्नस्य संयोगस्योत्पत्तौ हि कथमेकस्यान्यत्र संयोग इति व्यपदेशो, यतः स एव वृत्तिः स्यात् ? । ताभ्यां तस्य जननात्तथा व्यपदेश इति चेत्, न, कर्मणा कालादिना च तज्जननात्तथा व्यपदेशप्रसङ्गात् । तयोः समवायिकारणत्वात्तस्य तथा व्यपदेश इति चेत्, कुतः समवायिकारणत्वं तयोरेव न पुनः कर्मादेरिति नियमः ? इह संयोगिनोः संयोग इति प्रत्ययात्तत्र तस्य समवायसिद्धेरिति चेत्, स तहि समवायः पदार्थान्तरं
अष्टसहस्रीतात्पर्यविवरणम्
भवतीति कारिकासक्षेपार्थः । प्रकारान्तराभावादिति संयोगवृत्तौ देशकात्या॑न्यतरप्रकारस्यैव दर्शनात् प्रकारद्धयविशेषनिषेधे वृत्तिसामान्यनिषेधपर्यवसानादित्यर्थः । प्रकारान्तरमिति देशकात्य॑विनिर्मुक्तः सम्बन्धप्रकार इत्यर्थः । एतदेव हि विचार्यत इति समवायोऽपि हि घटे घटत्वस्य कात्स्येन तन्तष च पटस्य देशाद्यवच्छेदेनाभावाद्देशेनाभ्युपगम्यत इति तत्रापि प्रकारद्वयावकाशेन विचारस्य बद्धास्पदत्वादिति भावः । वस्तुत एकत्र तन्तौ न पट: किन्तु यावत्सु इति प्रतीतेः प्रत्येकावृत्तेरित्यादिन्यायाच्च प्रकारद्वयं समवायवृत्तौ प्रसिद्धस्थल एवौपढौकत इति तदविरोधो भेदाभेदाभ्युपगमं विना दुरुपपाद इत्यायुक्तं Tवादमालायामस्माभिः । सर्वथाऽन्यत्वासिद्धेरिति तत्काले तत्परिणामेन