________________
५२८
अष्टसहस्त्रीतात्पर्यविवरणम् __ (भा० ) अवयवगुणसामान्यतद्वतां व्यतिरेकैकान्तमाशङ्क्य प्रतिविधत्ते ।
एकस्यानेकवृत्तिर्न भागाभावाद् बहूनि वा । भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनार्हते ॥६२॥
कार्यकारणयोर्गुणगुणिनोः सामान्यतद्वतोश्चान्यत्वमेकान्तेन यदीष्यते तदैकस्य कार्यद्रव्यादेरनेकस्मिन् कारणादौ वृत्तिरेषितव्या, तदनिष्टौ कार्यकारणभावादिविरोधादकार्यकारणादिवत् । तद्वृत्तिश्चाभ्युपगम्यमाना प्रत्याश्रयमेकदेशेन सर्वात्मना वा स्यात् ?
___ (भा०) तत्र एकमनेकत्र वर्तमानं प्रत्यधिकरणं न तावदेकदेशेन, निष्प्रदेशत्वात् । नापि सर्वात्मना, अवयव्यादिबहुत्वप्रसङ्गात् ।
यावन्तो ह्यवयवास्तावन्तोऽवयविनः स्युस्तस्य प्रत्येकं सर्वात्मना वृत्तत्वात् । यावन्तश्च संयोग्यादयो गुणिनस्तावन्तः संयोगादयोऽनेकस्था गुणाः प्रसज्यन्ते । यावन्तः सामान्यवन्तोऽस्तावन्ति सामान्यानि भवेयुस्तत एव ।
(भा०) अथापि कथञ्चित्प्रदेशवत्त्वं मन्येतावयव्यादीनां, (भा०) तत्रापि वृत्तिविकल्पोऽनवस्था च । तथात्रावयव्यादि सर्वं (भा० ) तदेकमेव न स्यादिति । वृत्तेर्दोषोऽनार्हते मते दुर्निवारः । नैकदेशेन वर्तते, नापि सर्वात्मना । किं
अष्टसहस्त्रीतात्पर्यविवरणम्
एकस्येति एकस्य अवयव्यादेः भागाभावाद्=देशाभावादनेकत्रावयवादौ वृत्तिर्न भवति । भवति चेत्तदा प्रत्येकमनेकावयवादिपर्याप्तवृत्तित्वाद् बहुन्यवयव्यादीनि स्युः, देशतो वृत्तिश्च तत्र नावयव्यादीनां, तद्देशानभ्युपगमात्, अभ्युपगमेऽनवस्थाद्यापत्तेः । भागित्वात् कथाञ्चिद्देशित्वाद्वाऽस्यावयव्यादेर्नैकत्वं स्यादित्ययं वृत्तेर्दोषो नार्हते मते