________________
द्वितीयो भागः [ परि०४-का. ६१]
५२७ [केचित्तटस्था जैनादयः शङ्कन्ते वैशेषिकाः स्वपक्षं पोषयन्तः समादधते ।]
भिन्नपुरुषप्रतिभासविषयेणाभिन्नेनार्थेन व्यभिचार इति चेत्, नैकपुरुषापेक्षया भिन्नप्रतिभासत्वस्य हेतुत्वात् । तथापि क्रमेणैकप्रतिपत्तृभिन्नप्रतिभासविषयेणैकेन वस्तुनानेकान्त इति चेत्, न, भिन्नलक्षणत्वस्य भिन्नप्रतिभासत्वस्य हेतुत्वात् । भिन्नं हि लक्षणं कार्यकारणयोर्गुणगुणिनोः सामान्यतद्वतोश्च प्रतिभासते । न चैकस्य वस्तुनो भिन्नलक्षणत्वेन प्रतिभासोऽस्ति, येन व्यभिचारः । तत एव न विरुद्धो हेतुः साकल्येनैकदेशेन वा विपक्षे वृत्त्यभावात् । नापि कालात्ययापदिष्टः, पक्षस्य प्रत्यक्षागमबाधाभावात् । कार्यकारणयोर्गुणगुणिनोः सामान्यतद्वतोस्तादात्म्यमभिन्नदेशत्वात् । ययोरतादात्म्यं न तयोरभिन्नदेशत्वम् । यथा सह्यविन्ध्ययोः अभिन्नदेशत्वं च प्रकतयोः तस्मात्तादात्म्यम इत्यनमानेन पक्षस्य बाधेति चेत. न शास्त्रीयदेशाभेदस्यासिद्धत्वात्, कार्यस्य स्वकारणदेशत्वात् कारणस्यापि स्वान्यकारणदेशत्वात् । एतेन गुणगुणिनोः सामान्यतद्वतोश्च देशभेदस्य प्रतिपादनात् लौकिकदेशाभेदस्य तु व्योमात्मादिभिर्व्यभिचारादस्यानुमानस्यासमीचीनत्वात् प्रकृतपक्षबाधकत्वासम्भवात् । कथञ्चित्तादात्म्यस्य प्रत्यक्षतः प्रतीतेः सर्वथा भेदपक्षस्य बाधेति चेत्, न, तद्विरोधात् । तत एव भेदो मा भूदिति चेत्, न, भेदस्य पूर्वसिद्धत्वात् तादात्म्यस्य पूर्वसिद्धरसिद्धेः । सिद्धौ वा कार्यकारणादिविरोधात् धर्मधर्मित्वाधिकरणाधेयतादिविरोधात् क्रियाव्यपदेशादिभेदविरोधाच्च तयोर्न तादात्म्यं, भेदतादात्म्ययोर्वैयधिकरण्याच्च परस्परविरोधाच्छीतोष्णस्पर्शवत् । तयोरैकाधिकरण्ये सङ्कव्यतिकरापत्तिः । तदनापत्तौ पक्षद्वयोक्तदोषानुषङ्गः । प्रत्येकं तद्विरूपत्वोपगमे वानवस्थानादप्रतिपत्तिरभावश्च, इति वैशेषिकस्य
अष्टसहस्त्रीतात्पर्यविवरणम्
क्रमेणेति एकत्रैव वस्तुनि देशसन्निकर्षविप्रकर्षाभ्यामेकस्यापि प्रतिपत्तुः कालभेदेन भिन्नप्रतिभाससम्भवादित्यर्थः । भिन्नलक्षणत्वस्येति भिन्नलक्षणत्वप्रयुक्तभिन्नप्रतिभासविषयत्वादित्यर्थः । न च भिन्नलक्षणत्वस्यैव गमकत्वे इतरभागवैयर्थ्य, धूमप्रागभावादिहेताविव यन्निष्ठेत्यादिन्यायेन तद्वैयर्थ्याभावादिति द्रष्टव्यम् । पूर्वसिद्धत्वादिति कार्यकारणादिभेदस्य सर्वैः स्वीकृतत्वेन पूर्वप्रसिद्धत्वादित्यर्थः । असिद्धेरिति तत्प्रत्यक्षस्य विवादापन्नत्वेन तादात्म्ये साध्ये हेतौ सन्दिग्धासिद्धरित्यर्थः ॥