________________
॥ चतुर्थः परिच्छेदः ॥
कार्यकारणनानात्वं गुणगुण्यन्यतापि च । सामान्यतद्वदन्यत्वं चैकान्तेन यदीष्यते ॥ ६१॥
जीयादष्टसहस्त्री देवागमसङ्गतार्थमकलङ्कम् । गमयन्ती सन्नयतः प्रसन्नगम्भीरपदपदवी ॥ १ ॥
कार्यग्रहणात्कर्मणोऽवयविनोऽनित्यस्य गुणस्य प्रध्वंसाभावस्य च ग्रहणं, कारणवचनात् समवायिनस्तद्वतः प्रध्वंसनिमित्तस्य च । गुणशब्दान्नित्यगुणप्रतिपत्तिः, गुणिवचनात्तदाश्रयस्य । सामान्याभिधानात्परापरजातिप्रत्ययः । तद्वद्वचनादर्थप्रत्यय इति । क्रियातद्वतोरवयवावयविनोर्गुणगुणिनोविशेषतद्वतो: सामान्यतद्वतोरभावतद्विशेष्ययोश्चान्यतैव, भिन्नप्रतिभासत्वात् सह्यविन्ध्यवदित्युक्तं भवति । न चात्रासिद्धो हेतु:, साध्यधर्मिणि भिन्नप्रतिभासत्वस्य सद्भावनिश्चयात् । तत एव न सन्दिग्धासिद्धोऽज्ञातासिद्धो वा । नाप्यन्यतरासिद्धो, वादिप्रतिवादिनोरविवादात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
यदीयं नामापि स्मृतिमुपगतं विघ्नपटलीं, महामन्त्रप्रायं प्रशमयति दोषामिव रविः ।
मुदोऽसङ्ख्याः शङ्खश्वरविभुरसौ यच्छतु पराः । जरासन्धक्षिप्ताच्युतबलजरातङ्कहरणः ॥१॥ [शिखरिणीवृत्तम्]
चतुर्थे कार्यकारणादिभेदाभेदस्याद्वादसाधनार्थमुपक्रमः कार्यकारणेत्यादिकारिकया । तद्भेदैकान्ताभ्युपगमप्रदर्शनं तदूषणमग्रिमकारिकायाम् । गुणशब्दान्नित्यगुणप्रतिपत्तिरिति अनित्यगुणस्य कार्यपदेन पूर्वमेव ग्रहणादत्र गुणपदस्य विशेषपरत्वादिति भावः । अर्थप्रत्यय इति अर्थपदस्य वैशेषिकपरिभाषया द्रव्यादित्रयार्थत्वात्तत्त्रयप्रतीतिरित्यर्थः ।