________________
द्वितीयो भाग: [ परि० ४ - का० ६६ ]
मर्थोऽपि न सम्बद्धः ।
कुतस्तयोरनभिसम्बन्ध इति चेत्, संयोगस्य समवायस्य चानभ्युपगमात्, सामान्यं समवायीति विशेषणविशेष्यभावस्य चासम्भवादनवस्थाप्रसङ्गाच्च । तथैकार्थसमवायस्य चानवकाशात् समवायस्य क्वचिदसमवायात् सम्बन्धान्तरानिष्टेः सर्वथानभिसम्बन्धस्तावत्सिद्ध एव । तत: परस्परतोऽनभिसम्बन्धाभ्यां सामान्यसमवायाभ्यामर्थोऽपि द्रव्यगुणकर्मलक्षणो न सम्बद्धः शक्यते वक्तुं यतस्तत्र सत्तासमवायः स्यात् ।
५३९
( भा० ) ततस्त्रीण्यपि नात्मानं बिभृयुः कूर्मरोमादिवत् ।
परस्परमसम्बद्धानि ह्यर्थसमवायसामान्यानि न सन्त्येव । न चासतां कर्तृत्वम् । नापि कश्चिदात्मा सम्भवति यस्य कर्मत्वम् । न च कर्तृकर्मत्वाभावे तान्यात्मानं बिभृयुरिति शक्यं वक्तुं कर्तरि लिडो विधानात्कर्मणि विभक्तिनिर्देशाच्च । स्यान्मतं- 'परस्परमसम्बद्धानामपि स्वरूपसत्त्वप्रसिद्धेर्नार्थसमवायसामान्यानामसत्त्वम् । कूर्मरोमादीनां स्वरूपसत्त्वाभावाच्च विषमोऽयमुपन्यासः' इति तदयुक्तं, द्रव्यगुणकर्मणां स्वरूपसत्त्वोपगमे सत्तासमवायस्य वैयर्थ्यात्सामान्यादिवत्, सामान्यादीनां वा सत्तासम्बन्धप्रसङ्गाद् द्रव्यादिवत्, तेषां स्वरूपसत्त्वानुपगमे कूर्मरोमादिभ्यो विशेषाभावात् सम एवोपन्यास इति निरूपणात् कथं चार्थान्तरभूतायां सत्तायां समवायवत्सर्वथानभिसम्बद्धायां द्रव्यगुणकर्मणां सत्त्वं न पुनः कूर्मरोमादीनाम् ? इति चिन्त्यम् । कथं च सत्तासामान्यं सर्वथा समवायासम्बद्धं द्रव्यादिषु समवायि न पुनः समवायस्तत्र समवायी समवायान्तरेणासम्बद्ध इति
अष्टसहस्त्रीतात्पर्यविवरणम्
ततः परस्परत इत्यादि, युक्तं चैतत्, न ह्यसम्बद्धाभ्यां घटसंयोगाभ्यां कृत्वा भूतलं घटसम्बद्धं भवति, पटसंयोगेन घटवद्भूतलमित्यस्याप्यापत्तेः न च सामान्यनिरूपितत्वं समवायैक्ये किञ्चिदतिप्रसङ्गवारकं नाम, तन्नानात्वे स्वरूपतः सामान्यनिरूपितत्वं व्यवहारे स्वीक्रियतां, किमन्तर्गडुना समवायेन ? तत्र सत्तानिरूपितत्वस्य खपुष्प इवासम्भवादिति । कथं चेत्यादि अनभिसम्बद्धायामित्यनन्तरमङ्गीक्रियमाणायामिति शेषः । अत्र यत् यत्सम्बन्धाभाववत् तत्तेन सम्बन्धेन तदभाववदिति व्याप्तेरर्थसमवायाभाववत्याः सत्ताया अर्थेऽभावात् कूर्मरोमतुल्यत्वमर्थानां पराभिमतानामिति बोध्यम् । उक्तयुक्तिमेवोत्तेजयति कथं