________________
५४०
अष्टसहस्रीतात्पर्यविवरणम् बुद्ध्यामहे ? समवायसम्बद्धत्वाभावाविशेषात्, सतापि हि समवायेन सामान्यस्यासम्बद्धत्वं समवायान्तरेण पुनरसत्ता समवायस्येति तत्सदसत्त्वाभ्यामसम्बद्धत्वस्य विशेषयितुमशक्तेः । न च कश्चित्सम्बन्धः स्वसम्बन्धिभ्यामसम्बद्ध एव तौ घटयितुमलं, संयोगस्यापि स्वसंयोगिभ्यामसम्बद्धस्यैव तयोर्घटकत्वप्रसङ्गात् । न चैवमिष्यते सिद्धान्तविरोधात् । ततो न कार्यकारणयोर्गुणगुणिनोः सामान्यतद्वतोर्वान्यतैकान्ते तद्भावो युक्तोऽकार्यकारणादिवत्, समवायादर्थान्तरभावनियमाच्च । तद्वत्समवायोऽपि न तेषां परस्परं घटनकारी सर्वथानभिसम्बद्धत्वात् तादृगर्थान्तरवत् । ततश्चासन् समवायोऽनर्थक्रियाकारित्वात् कूर्मरोमादिवत् । सामान्यं चासत् तत एव तद्वत् । न हि तदर्थैरसम्बद्धं स्वविषयज्ञानोत्पादनलक्षणामप्यर्थक्रियां कर्तुं प्रभवति यतोऽसिद्धो हेतुः स्यात् । तथा न सन्ति द्रव्यादीनि सत्तासमवायरहितत्वात्तद्वत् । सामान्यादिभिर्व्यभिचार इति चेत्, न, तेषामपि परमार्थतः सत्त्वानभ्युपगमात् । न चोपचरितसद्भिर्व्यभिचारचोदनोपपत्तिमती, परमार्थसत्त्वाभावसाधनस्यातिप्रसङ्गाद् इति न कार्यकारणादीनामन्यतैकान्तः श्रेयान्, प्रमाणाभावादनन्यतैकान्तवत् ॥६६॥
अष्टसहस्त्रीतात्पर्यविवरणम्
च सत्तासामान्यमित्यादिना । ततश्चासत्समवाय' इति ।
॥ समवायनिराकरणवैशिष्ट्यस्वीकारवादः ॥ ननु समवायो यदि सत्तया सर्वथाऽनभिसम्बद्धः स्यात्तदाऽर्थे सत्तां न सङ्कटयेदिति तर्कः, समवायासिद्धावाश्रयासिद्धत्वेन प्रशिथिलमूलस्तत्सिद्धौ च किं तेन ? उदिते सूर्ये चौरादिशापवत्तस्य व्यर्थत्वात् । केवलं ततः समवायस्य स्वभावविशेष कल्पयेत् प्राज्ञो येन सत्तायामसन्नप्यसौ तामर्थेन सङ्घटयेदित्ययुतसिद्धानामिहेति प्रत्ययहेतुरनुगतः समवायो दुरपह्नव इति चेद्, दुरन्तेयं नैयायिकसमयवासनानुबद्धा लाघवधीर्देवानांप्रियस्य, हन्तैवं जलादौ वह्याद्यभावप्रमायाः सम्बन्धनियतत्वात्तत्राप्यनुगतं वैशिष्ट्यसम्बन्धं लाघवप्रियः किं नाभ्युपैषि ? (शङ्का) स्वरूपसम्बन्धेनैव तत्प्रमोपपत्तेरतिरिक्तवैशिष्ट्येऽपि वैशिष्ट्यान्तरस्वीकारेऽनवस्थापत्तेरिति चेत्, समवायेऽपीदृशी दीयतां दृष्टिः । (शङ्का) गुणगुण्यादिस्वरूपद्वये सम्बन्धत्वमतिरिक्तसमवाये वेति विनिगमकाभावादपि समवायसिद्धिः, प्रकृते तु
१. असन् इति अष्टसहस्रीसम्मतः पाठः ।