________________
द्वितीयो भाग: [ परि० ४ - का० ६७ ]
५४१
अपरः प्राह-मा भूत्कार्यकारणादीनामन्यतैकान्तः परमाणूनां तु नित्यत्वात् सर्वास्ववस्थास्वन्यत्वाभावादनन्यतैकान्त इति तं प्रति सम्प्रत्यभिधीयते
अनन्यतैकान्तेऽणूनां सङ्घातेऽपि विभागवत् । असंहतत्वं स्याद् भूतचतुष्कं भ्रान्तिरेव सा ॥६७॥
[परमाणवः पररूपं न परिणमन्ते इति मन्यमाने दोषानाह । ]
यथैव हि विभागे सति परमाणवोऽसंहतात्मानस्तथा सङ्घातकालेऽपि स्युः, सर्वथान्यत्वाभावादन्यत्वे तेषामनित्यत्वप्रसङ्गात् । सङ्घातकाले कार्यस्योत्पत्तेस्तदसमवायिकारणस्वसंयोगस्वभावं संहतत्वं भवत्येवेति चेत्, न तेषामतिशयानुत्पत्तौ संयोगस्यैवासम्भवात् पृथिव्यादिभूतचतुष्कस्यावयविलक्षणस्य भ्रान्तत्वप्रसङ्गात् । कर्मणोऽतिशयस्य प्रसूतेः संयोगः परमाणूनामिति चेत्, न कथञ्चिदन्यत्वाभावे तदयोगात् । क्षणिकत्वात्परमाणूनामदोष इति चेत्, तथापि
अष्टसहस्त्रीतात्पर्यविवरणम्
नैवम्, अभावस्यानुगतत्वेन स्वरूपसम्बद्धत्वौचित्यादित्यपि रिक्तं वचः, जातिव्यक्तिस्थले जातेरेवानुगतत्वेन सम्बन्धत्वौचित्यात् समवायोच्छेदापत्तेः, अस्मद्द्द्दष्ट्या सर्वस्यैव कथञ्चिदनुगतत्वाच्च । न च समवायेन संयोगत्वाद्यवच्छिन्ने द्रव्यत्वादिना हेतुत्वात् समवायसिद्धिः, स्वरूपाणामानन्त्येन गौरवात्, कालिकादिस्वरूपेण स्पन्दादेरपि जन्यभाववत्त्वाच्चेत्यपि वाच्यम्, तथापि कालिकविशेषणतादिभिन्नस्य पदार्थमात्राधारतानियामकस्य कस्यचिद्वैशिष्ट्यस्य संयोगादिनिष्ठकार्यतावच्छेदकसम्बद्धत्वेनाविरोधात् ।
अथ प्रतियोगितया घटादिसमवेतनाशे कालावच्छिन्नस्वप्रतियोगिसमवेतत्वसम्बन्धेन घटादिनाशस्य हेतुत्वात्समवायसिद्धिः, जात्यादौ नाशापत्तिवारणाय कालावच्छिन्नेति, स्वप्रतियोगिवृत्तित्वेन हेतुत्वे तु घटादिवृत्तिध्वंसध्वंसापत्तिः । न च घटादिकालीनतद्वृत्तिक्रियासंयोगविभागद्वित्वादिनाशे व्यभिचारात्, घटादिनाशक्षणवृत्तितत्समवेतनाशे हेतुत्वोक्तौ क्षणानामानन्त्येन विशिष्य नाश्यनाशक भावविश्रान्तौ गौरवात्, कालिकेन घटादिनाशवृत्तिघटादिवृत्तिनाशे तेन घटादिनाशस्य हेतुत्वकल्पनात्, प्रतिक्षणं तादृशस्य कस्यचिन्नाशेनाऽनुपपत्त्यभावान्न समवायसिद्धिरिति वाच्यम्, तथापि लाघवात्प्रतियोगितया