________________
अष्टसहस्त्रीतात्पर्यविवरणम्
( भा० ) कार्यकारणादेरभेदैकान्ते धारणाकर्षणादयः परमाणूनां सङ्घातोऽपि मा भूवन्विभागवत् ।
५४२
विभक्तेभ्यः परमाणुभ्यः संहतपरमाणूनां विशेषस्योत्पत्तेर्धारणाकर्षणादयः सङ्गच्छन्ते एवाधोमुखसोदककमण्डलुवद्वंशरज्ज्वादिवच्चेति चेत्, स तर्हि तेषां ( भा० ) नाहितोऽपि विशेषो विभागकान्तं निराकरोति,
तन्निराकरणे परमाणुत्वविरोधादेकत्वपरिणामात्मकस्कन्धस्योत्पत्तेः । प्रविभक्तपरमाणुभ्यः संहतपरमाणूनामविशिष्टत्वलक्षणानन्यत्वासम्भवात् संहतानां धारणाकर्षणादिसामर्थ्यं विशेषो न पुनरपरमाणुत्वं, येनाविशेषः कार्यकारणपरमाणूनां न भवेदिति चेत्, न, सर्वथा तदविशेषे तत्सामर्थ्यस्यैवायोगात् प्रविभक्तपरमाणूनामपि तत्प्रसङ्गात् । प्रविभक्तत्वादेव न तेषां तत्सामर्थ्यमिति चेत्,
अष्टसहस्त्रीतात्पर्यविवरणम्
स्वप्रतियोगिसमवेतत्वस्वाधिकरणत्वो भयसम्बन्धेन नाशवन्नाशत्वावच्छिन्ने स्वप्रतियोगिसमवेतत्वेन नाशत्वावच्छिन्नस्य हेतुत्वेन समवायसिद्धेरप्रतिरोधादिति चेत्, न, परमाणुरूपशब्दकर्मवेगद्वित्त्वादिनाशधारावारणाय प्रतियोगिनो विशिष्य हेतुत्वाद् ध्वंसे ध्वंसापत्त्यभावात् कालावच्छिन्नस्वप्रतियोगिसमवेतत्वमपहाय तत्स्थाने सन्निष्ठस्वप्रतियोगिवृत्तित्वस्य स्वप्रतियोगिवृत्तिसत्त्वस्यैव वा सम्बन्धस्याभिषेके लाघवादनतिप्रसङ्गाच्च । एतेन आश्रयनाशजन्ये नाशे प्रतियोगिनो विशिष्याहेतुत्वाद् ध्वंसे तदापत्तिर्दुवरित्यादि अपास्तम् । अपि च रूपाभावान्यमहद्वृत्तिचाक्षुषे चक्षुः संयुक्तमहदुद्भूतरूपद्वैशिष्ट्यस्य हेतुत्वाद्वैशिष्ट्यसिद्धिर्जायमाना समवायमपाकुरुते । न च एवमपि महत्त्व - भावरूपाभावयोश्चाक्षुषे कार्यकारणभावद्वयान्तरावश्यकत्वे रूपाभावान्यद्रव्यवृत्त्यभावचाक्षुषे चक्षुःसंयुक्तोद्भूतरूपवद्विशेषणतामहत्त्वाभावान्यद्रव्यवृत्त्यभावचाक्षुषे च चक्षुः संयुक्तमहदुद्भूतरूपवत्समवायो हेतुरित्येव कल्पयितुं युक्तम्, अत एव जातिसाधारणसमवायसिद्धिरिति भट्टाचार्योक्तमपि श्रद्धेयं द्रव्यसमवेतत्रुटिचाक्षुषे व्यभिचारवारणाय द्रव्यान्यत्वविशेषणदाने रूपाभावमहत्त्वाभावचाक्षुषनिष्ठकार्यतावच्छेदकपर्यालोचने च गौरवात्, वैशिष्ट्यवादिनो रूपाभावान्यमहद्वृत्तिचाक्षुषत्वं महत्त्वाभावान्यरूपवद्वृत्तिचाक्षुषत्वं वा कार्यतावच्छेदकमिति विनिगमनाविरहस्फूर्तौ तु तेन वस्तुतो रूपाभावान्यमहद्वृत्तिनिष्ठा या विषयता तया चाक्षुषत्वमेव कार्यतावच्छेदकं वाच्यम्, अपि च