________________
५४३
द्वितीयो भागः [परि० ४-का० ६७]
( भा० ) तत एवान्यत्रापि तन्नेष्यते । केनचिदपि विशेषान्तरेण तद्विभक्तत्वानिराकरणात् । (भा०) पृथिव्यादिभूतचतुष्टयस्थितिरेवं विभ्रममात्रं प्राप्नोति । सर्वदा परमाणुत्वाविशेषात् । (भा०) इष्टत्वाददोष इति चेत्, न प्रत्यक्षादिविरोधात् ।
प्रत्यक्षं हि बहिर्वर्णसंस्थानाद्यात्मकं स्थवीयांसमाकारमन्तश्च हर्षाद्यनेकविवर्तात्मकमात्मानं साक्षात्कुर्वद् भ्रान्तं चेत्किमन्यदभ्रान्तं यत्प्रत्यक्षलक्षणं बिभृयात् ? प्रत्यक्षाभावे च कुतोऽनुमानं न विरुद्ध्यते ? न च प्रत्यक्षादिविरोधे स्वसंवेदनमात्रमपि सिद्धयेत्, सर्वदा संवित्परमाणुमात्रस्यासंवेदनात् । न च कार्यस्य भ्रान्तौ परमाणुसिद्धिस्तत्त्वतः स्यादित्युच्यते ।
अष्टसहस्त्रीतात्पर्यविवरणम् -
समवायवादिनः कार्यकारणभावत्रये प्रथमद्वितीयाभ्यामेव कार्यतावच्छेदके चरमाभावत्वाप्रवेशे द्वितीये द्रव्यभेदप्रवेशे च वैशिष्ट्यवादिनो निर्वाहान्नान्त्यस्य हेतुतेति लाघवं । न च एवं पार्थिवाणुघ्राणमात्रेन्द्रियसन्निकर्षे पृथिवीत्वादि प्रत्यक्षापत्तिः, परस्यापि तन्मात्रसन्निकर्षाज्जलत्वाभावादिप्रत्यक्षतापत्तेस्तद्वारणाय रूपाभावप्रत्यक्षे चक्षुःसंयुक्तमहत्त्ववद्विशेषणता महत्त्वाभावचाक्षुषे चक्षुःसंयुक्तोद्भूतरूपवद्विशेषणता रूपमहत्त्ववद्वत्ते रूपाभावमहत्त्वाभावभिन्नस्य चाभावस्य चाक्षुषे चक्षुःसंयुक्तमहदुद्भूतरूपवद्विशेषणता हेतुरित्यभावप्रत्यक्ष एव परेण कार्यकारणभावत्रयं वाच्यम्, भावप्रत्यक्षे चान्यत्, तथा च तृतीये कार्यतावच्छेदकेऽभावत्वाप्रवेशाद्भावप्रत्यक्षेऽपि वैशिष्ट्यवादिनस्तत एव निर्वाहः, एवं च चक्षुःसंयुक्तसमवायादेरप्यस्वीकाराल्लाघवम् । न च परेणापि व्यासज्यवृत्तिधर्मप्रत्यक्षानुरोधेन तत्तद्रव्यचाक्षुषादौ चक्षुःसंयोगादिहेतुत्वेनैव तत्तवृत्तिगुणकर्माभावादिप्रत्यक्षनिर्वाहे चक्षुः संयुक्तसमवायादिप्रत्यासत्तेरेवास्वीकारान्नोक्तलाघवावतार इति वाच्यम्, यदवच्छेदेन घटपटयोः संयोगस्तद्भिन्नावच्छेदेन चक्षुःसंयोगवशात्तदुभयप्रत्यक्षेऽपि तदुभयसंयोगाप्रत्यक्षात्तत्प्रत्यक्षस्य तदुभयविषयकत्वनियमाभावाद् व्यासज्यवृत्तिधर्मप्रत्यक्षे पृथक्सामग्र्या आवश्यकत्वादुक्तहेतुत्वेन न निर्वाह इत्यादेः प्रथमपरिच्छेद एव विवेचितत्वात्, यत्र च न व्यासज्यवृत्तिधर्मप्रत्यक्षानुरुद्धा हेतुता तत्र घ्राणादिप्रत्यासत्तौ लाघवाद्वैशिष्ट्यसिद्धर्ब्रह्मणाऽपि दुर्वारत्वाच्च । न च गन्धग्राहकं घ्राणसंयुक्तमहत्त्वोद्भूतगन्धवद्वैशिष्ट्यं गन्धाभावग्राहकं