________________
५४४
अष्टसहस्त्रीतात्पर्यविवरणम्
कार्यभ्रान्तेरणुभ्रान्तिः कार्यलिङ्गं हि कारणम् । उभयाभावतस्तत्स्थं गुणजातीतरच्च न ॥ ६८ ॥
[कार्यस्य भ्रान्तौ परमाणुरूपं कारणमपि भ्रान्तमेव ]
प्रत्यक्षतः परमाणूनां प्रसिद्धेर्नाणुभ्रान्तिरिति चेत्, न, तेषामप्रत्यक्षत्वात् । तथा
हि
( भा० ) चक्षुरादिबुद्धौ स्थूलैकाकारः प्रतिभासमानः परमाणुभेदैकान्तवादं प्रतिहन्ति तद्विपरीतानुपलब्धिर्वा । तत्रैतत्स्याद् भ्रान्तैकत्वादिप्रतिपत्तिरिति तन्न, परमाणूनां चक्षुरादिबुद्धौ स्वभावमनर्पयतां कार्यलिङ्गाभावात्तत्स्वभावाभ्युपगमानुपपत्तेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तूद्भूतगन्धाघटितमिति न तयोरैक्यसम्भव इति शङ्कनीयम्, अनुद्भूतगन्धभेदस्य गन्धसाक्षात्कारहेतुतयोद्भूतगन्धस्य सन्निकर्षाघटकत्वादिति परेषामेव नव्यनयप्रसादमारोहतां विचारनिःश्रेणी । अपि च जातिसाधारणसमवायसिद्धौ जातेरर्थवत्त्वापत्तिः, यत्र यत्सम्बन्धवत्त्वं तत्र तद्वत्त्वमिति नियमस्य ग्रन्थकृतैव पूर्वं सूचितत्वात् । (शङ्का) तत्र तस्य तद्वृत्तित्त्वानियामकत्वान्नेयमिति चेत्, तदपि कुत: ? (शङ्का) तथाविशिष्टबुद्धयभावादिति चेद्, व्यक्त इतरेतराश्रयः, तत्र तद्वृत्तितानियामकसम्बन्धाभावे तथाविशिष्टबुद्धयभावस्तदभावाच्च स इति । तस्माद् व्यक्तिस्वरूपस्य जातौ वृत्त्यनियामकत्वमित्यस्मन्मतमेव श्रेय इति ।
यदपि द्रव्यजात्यन्यचाक्षुषे महदुद्भूतरूपवद्भिन्नसमवेतत्वेन प्रतिबन्धकत्वात् समवायसिद्धिरिति कैश्चिदुच्यते, तदपि तुच्छं, द्रव्यान्यसच्चाक्षुषत्वावच्छिन्ने महदुद्भूतरूपवद्भिन्नवृत्तित्वेन प्रतिबन्धकत्वकल्पनाया एवौचित्यात्, तदेवं लाघवादेकः समवायो यैः साध्यते तेषामितोऽपि लाघवाद्वैशिष्ट्यमेकं बलादापतेदिति निर्व्यूढम् ।
यः पुनराह - नेत्याकारकाभावप्रत्यक्षापत्तेरयोग्याभावप्रत्यक्षापत्त्या च प्रतियोगिविशिष्टतत्तदभावप्रत्यक्षे तत्तदभावविशेषणता हेतुरतो नाभावमात्रस्य वैशिष्ट्यसिद्धिरिति, सोऽपि न प्रेक्षापूर्वकारी, भावाभावसाधारण्येन लाघवादेकवैशिष्ट्यसिद्धौ विशिष्यप्रत्यासत्तौ तन्निवेशस्याबाधकत्वात्, अन्यथा समवायैक्येऽप्यगतेः, तस्यापि व्याप्यवृत्त्य -