________________
५४५
द्वितीयो भागः [ परि. ४-का० ६८]
प्रविरलबकुलतिलकादीनां जातुचित्प्रत्यक्षतोऽप्रतिपत्तावनेकाकारप्रतिभासस्य च भ्रान्तत्वे तत्स्वभावाभ्युपगमानुपपत्तिवत् । कार्यलिङ्गं हि कारणं परमाणुरूपम् । तत्कथं कार्यस्य भ्रान्तौ भ्रान्तं न भवेत् ? परमाणूनां कार्यस्य चानभ्युपगमे ।
(भा०) तवयाभावात्तवृत्तयो जातिगुणक्रियादयो न स्युर्योमकुसुमसौरभवत् ।
तद्धि गुणजातिरूपादिसत्तादिस्वभावमितरच्च क्रियाविशेषसमवायाख्यं परमाणुवृत्ति वा स्यात् कार्यद्रव्यवृत्ति वा । न च तदुभयासम्भवेऽभ्यपगन्तुं युक्तं, गगनकुसुमस्याभावेऽपि तवृत्तिसौरभाभ्युपगमप्रसङ्गात् । ततस्तदभ्युपगच्छता
अष्टसहस्त्रीतात्पर्यविवरणम् व्याप्यवृत्त्यादिगुणप्रत्यक्षानुरोधेन विशिष्यापि प्रत्यासत्तिघटकत्वात्, प्रतियोगिज्ञानादिकारणतयोक्तापत्तिनिरासेनाभावप्रत्यक्षे विशेषणतायाः सामान्यतः प्रत्यासत्तिताया एव युक्तत्वाच्च । वस्तुतः सत्तापि सामान्यत एका विशेषणभेदाच्च भिन्नेत्युक्तं, समवायोऽपि च त्वया लाघवादेको रूपिनीरूपव्यवस्थानुरोधेन च गलेपादिकया नाना स्वीकार्यः, तद्वत् वैशिष्ट्यमप्येकानेकरूपत्वेन वैश्वरूप्यं बिभ्रत् केन प्रत्याख्यातुं शक्यम् ? । ततश्च
एकं स्वीकुरु वैशिष्ट्यं, समवायं विमुञ्च वा । क्रीडाकान्दुकतां नेय इति नैयायिको बुधैः ॥१॥ नाशस्य प्रागभावत्वं, प्रागभावस्य नाशता । घटादौ तस्य सम्बन्धं, वैशिष्ट्याख्यं विना कथम् ? ॥२॥ अभावाभावरूपत्वात्, सर्वस्य प्रतियोगिनः । तत्सम्बन्धेषु वैशिष्ट्यरूपत्वं चेन्न मन्यते ॥३॥ नेति धीस्तत्र तन्न स्यान्न हि सा कालिकादिना । वैशिष्ट्यत्वे तु तेष्विष्टे संसर्गाकारगौरवम् ॥४॥ धर्मातिरेके तद्धर्मः स्पर्द्धयैवातिरिच्यते । जात्यन्तरात्मके तत्त्वे किमसाध्यं विवक्षया ? ॥५॥ विशिष्ट लक्षणाऽन्येषामविशिष्टे च कस्यचित् । जात्यन्तरं त्वखण्डं वा, खण्डशो वा प्रतीयताम् ॥६॥