________________
५४६
अष्टसहस्त्रीतात्पर्यविवरणम् कार्यद्रव्यमभ्रान्तमभ्युपगन्तव्यम् । तच्च परमाणूनां परमाणुरूपतापरित्यागेनावयवि
-
अष्टसहस्त्रीतात्पर्यविवरणम् -
इतीह वैशिष्ट्यमनेकमेकं, समर्थितं न्यायविशारदेन । स्वरूपविश्रान्तिजुषा च तेन भग्ना परेषां समवायवृत्तिः ॥७॥ ॥६६।।
॥ अणूनामवयविप्रदेशतयान्यत्ववादः ॥ तच्च परमाणूनामिति ननु कथमेतत्, आरब्धकार्याणामपि परमाणूनामवयविसमवायित्वेऽपि तद्रूपस्वीकारस्य परमाणुरूपतापरित्यागस्य चायुक्तत्वादिति चेत्, न, आरब्धकार्याणामणूनां स्कन्धस्थानामपि प्रदेशत्वस्वीकारे परमाणुत्वपरित्यागस्य कथञ्चिदवयवित्वापत्तेश्चावश्यकत्वात्, सर्वथाऽवयवावयविभेदे शतमाषकारब्धेऽवयविनि माषकशताद् गुरुत्वाधिक्यादवनतिविशेषप्रसङ्गात् । न च गुरुतरद्रव्ययोः समयोरुत्तोलने एकत्र संलग्नतृणादिगुरुत्वाधिक्यादवनतिवदुपपत्तिः अवयविन्यत्यन्तापकृष्टगुरुत्वस्वीकारादिति वाच्यम्, एवं सति तत्तदवयवित्वेन तत्तदवयवगुरुत्वात्यन्तापकृष्टगुरुत्वहेतुत्वकल्पने महागौरवात् । (शङ्का) स्वाश्रयसमवेतत्वसम्बन्धेनोत्कृष्टगुरुत्वस्य समवायेनात्यन्तापकृष्टगुरुत्वहेतुत्वस्वीकारे चात्यन्तापकृष्टगुरुत्ववदण्वारब्धस्थले व्यभिचारात् (शङ्का) परमाणावत्यन्तापकृष्टगुरुत्वं पाकजमेवापाकजे च तत्रोक्तहेतुत्वान्न दोष इति चेत्, न, अत्यन्तापकृष्टगुरुत्ववदण्वारब्धेऽपि ततोऽत्यन्तापकृष्टगुरुत्वस्वीकारेऽत्यन्तत्वाविवेचनात् । (शङ्का) स्वजन्यावनतिविशेषोत्कृष्टावनतिविशेषप्रयोजकरूपाभाव एवात्यन्तत्वं तादृशात्यन्तापकृष्टगुरुत्वे च गुरुत्वमात्रस्यैवोक्तसम्बन्धेन हेतुत्वान्न दोष इति चेत्, न, तथापि परमाणावेवोत्कृष्टगुरुत्वविश्रामापत्तेः । न च तस्यापि युक्तत्वं, पाषाणारम्भकपरमाण्वारब्धतद्भस्मद्रव्ये पाषाणतुल्यगुरुत्वप्रसङ्गात्, स्वैरं परिभ्रमद्भिस्तत्परमाणुभिर्जगदाक्रमणप्रसङ्गाच्च, तस्मादारब्धकार्यैरणुभिः कथञ्चिदसदेवावयवित्ववद् गुरुत्वं स्वीक्रियते ततस्तेषु नानन्यतैकान्त इति युक्तम् । एतेन अस्तु वा परमाणावेव गुरुत्वं व्यणुकादेरध:संयोगस्तु गुरुत्वसापेक्षपातजन्यावयववेगजवेगाधीनक्रियया, पातव्यवहारस्तु वर्तिस्थदीपपातव्यवहारवद् गौणः, न चैवं महावयविपाते बहुविलम्ब प्रसङः, मिथो विष्टब्धावयवानां विष्टम्भाधीनक्रियाजन्यवेगेनान्त्यावयविनि द्रुतवेगसम्भवात् पातव्यवहारवत्परम्परया सम्बन्धविशेषेण वा परमाणुगुरुत्वमेव वा पतननियामकमिति अपास्तम्, अध:संयोगे गुरुत्वस्य सामानाधिरण्येनैव हेतुत्वात्, परमाणुगतगुरुत्वेन परम्परयाऽवयविनिष्ठकार्योत्पत्तौ तद्गतरूपादिनापि चाक्षुषादिकार्यनिर्वाहेऽवयविरूपादेरप्युच्छेदप्रसङ्गात्, सम्बन्धविशेषस्य च प्रदेशस्कन्ध