________________
५४७
द्वितीयो भागः [ परि. ४-का० ६८] रूपतोपादाने सति सम्भाव्यते नान्यथा । तन्न तेषामनन्यतैकान्तः, कार्योत्पत्तौ कथञ्चिदन्यत्वोपपत्तेः । ततः सौगतवन्न वैशेषिकाणां स्वमतसिद्धिः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
भावाख्यतादात्म्यातिरिक्तस्य दुर्वचत्वात्तत्स्वीकारे चाणूनां कथञ्चिदवयविरूपतापत्ताव(न)न्यत्वस्यानायाससिद्धत्वात् । यदप्युच्यते भट्टाचार्यैर्गुरुत्वे एव वा मानाभावो, वायुतेजसोस्तिर्यगूर्ध्वगमनवत् पाथः पृथिव्योरधोगमनस्यासति प्रतिबन्धके ऽदृष्टवदात्मसंयोगादिनैवोपपत्तेः, पतनप्रकर्षस्त्ववयवाधिक्यात्, अवयविनि गुरुत्वापकर्षवादिनापि तथैव वाच्यत्वादिति, तदपि चिन्त्यम्, अवयवाधिक्येन पतनप्रकर्षे महाधूमस्यापि तत्प्रसङ्गात्, स्पर्शविशेषवदवयवाधिक्यस्य तत्प्रयोजकत्वे च स्पर्शविशेषस्यैव तत्त्वौचित्याद्, गुरुत्वस्य च तद्गतजातिविशेषस्यैव कल्पयितुं युक्तत्वात्, एवं हि पतनहेतुतावच्छेदकं गुरुत्वं स्यादिति लाघवम्, परमते तु गुरुत्वत्वमिति गौरवमित्यस्मदेकपरिशीलितः पन्थाः । तदेवं गुरुत्वादिमत्कार्यद्रव्यभेदेन कथञ्चिदन्यत्वमणूनां सिद्धम् । एतेन नित्यत्वात् कार्यद्रव्यानारम्भकत्वाच्चाणूनां नान्यत्वं लौकिकविषयतया द्रव्यसाक्षात्कारत्वावच्छिन्ने त्र्यणुकत्वादिघटकसंयोगानां पिशाचत्वादिघटकसंयोगभिन्नानां वैजात्येन कारणत्वान्न केवलाणुद्व्यणुकप्रत्यक्षापत्तिः, तादृशसंयोगविशिष्टवृत्तित्वादिकं च गुणादिप्रत्यक्षे तन्त्रमिति केवलाणुव्यणुकादिगुणाप्रत्यक्षत्वेऽपि न त्र्यणुकादिगुणाप्रत्यक्षत्वम् । न च एवं तन्तूनामेव पटत्वे तन्तुषु पट इति धीन स्यात्, स्याद्वा तन्तुषु तन्तुरित्यादिकमपीति वाच्यम्, फलबलेन विलक्षणसंयोगवत्त्वरूपतन्तुत्वादेरेव विलक्षणसंयोगवत्त्वरूपपटत्वादिविशिष्टाधारतावच्छेदकत्वस्वीकारात्, पट उत्पन्नः पटो नष्ट इत्यादिधीस्तु विशेषणोत्पादनाशविषया, एक: पट इति प्रतीतिश्चैकं वनमित्यादिवत् समूहैकत्वविषया, पटो महानिति धीरप्यणूनां महत्त्वासम्भवान्महान् धान्यराशिरितिवत् संयोगाविशेषरूपं महत्त्वमवगाहत इत्यादि नव्यनास्तिकमतम् अपास्तम् । विलक्षणसंयोगवत्तावदणुत्वस्य पटत्वरूपत्वे तावत्त्वाप्रत्यये तदप्रत्ययापत्तेः । न च विलक्षणसंयोगत्वादिकमेव पटत्वादिकं, तन्तुसंयोगात्पट उत्पन्न इत्यादिव्यवहारायाथार्थ्यांपत्तेः, तन्त्वाद्यग्रहे तत्संयोगाग्रहेऽपि पटत्वादिप्रतीतेश्च । किञ्च विलक्षणसंस्थानावच्छेदेन सन्निकर्षाद् यद्रव्यगतघटत्वादिग्रहस्तस्योत्पादविनाशभेदादिप्रत्ययानुपपत्त्या पृथगवयविसिद्धिस्तस्य चैकस्याप्यावृतानावृतत्वरक्तारक्तत्वसकम्पनिष्कम्पत्वादिना भेदाद्देशप्रदेशरूपतासिद्धौ कथं नाणूनामवयविप्रदेशतयाऽन्यत्वं? तेन कथञ्चिन्नित्यत्वस्याव्याहतेः, सर्वथा नित्यत्वस्य च क्वाप्यनभ्युपगमात् । किञ्च विभागजातोत्पत्त्याऽप्यणूनामन्यत्वं साधनीयम्, अन्यथा कपालादीनामपि तदुच्छेदापत्त्या सत्कार्यवादापत्तेरिति