________________
५४८
अष्टसहस्त्रीतात्पर्यविवरणम्
साङ्ख्यानां च कार्यकारणयोः
एकत्वेऽन्यतराभावः शेषाभावोऽविनाभुवः । द्वित्वसङ्ख्याविरोधश्च संवृतिश्चेन्मृषैव सा ॥६९॥
[साङ्ख्यः कार्यकारणयोः सर्वथा तादात्म्यं मन्यते तस्य निराकरणम् ]
कार्यस्य हि महदादेः कारणस्य च प्रधानस्य परस्परमेकत्वं तादात्म्यम् । तस्मिन्नभ्युपगम्यमानेऽन्यतरस्याभावः स्यात् । ततः शेषास्याप्यविनाभुवोऽभावः । इति सर्वाभावः प्रसज्यते । यदि पुनः कार्यस्य कारणेऽनुप्रवेशात्पृथगभावेऽपि कारणमेकमास्ते एव नित्यत्वादिति मतं तदा द्वित्वसङ्ख्याविरोधोऽपि, सर्वथैकत्वे तदसम्भवात् कार्यकारणभावादिवत् । संवृतिरेव द्वित्वसङ्ख्या तत्रेति चेत्, तर्हि मृषैव सा तद्वदेव प्रसक्ता । तथा च कुतः प्रधानस्याधिगति: ? न तावत्प्रत्यक्षात्, तस्य तदविषयत्वात् । नाप्यनुमानात्, अभ्रान्तस्य लिङ्गस्याभावात् । न चागमात्, शब्दस्यापि भ्रान्तत्वोपगमात् । न च भ्रान्ताल्लिङ्गादेरभ्रान्तसाध्यसिद्धिरतिप्रसङ्गात् । एवं पुरुषचैतन्ययोः
( भा० ) आश्रयाश्रयिणोरेकत्वे तदन्यतराभावः ।
पुरुषे चैतन्यानुप्रवेशे पुरुषमात्रस्य तस्य वा चैतन्यानुप्रवेशे चैतन्यमात्रस्य प्रसक्तेः सिद्धस्तावत्तदन्यतरस्याभावः परेषाम् ।
( भा० ) ततः शेषाभावस्तत्स्वभावाविनाभावित्वाद् वन्ध्यासुतरूपसंस्थानवत् ।
यथैव हि वन्ध्यासुतरूपस्याभावे न तस्य संस्थानं संस्थानिस्वभावाअष्टसहस्त्रीतात्पर्यविवरणम्
दिग् ॥६८॥
एकत्व इति अस्यां कारिकायामविनाभुपदम् अविनाभाविकार्यकारणद्वयेऽर्थान्तरसङ्क्रमितवाच्यं, तच्च षष्ठ्यन्तमेकत्व इत्यनेनान्वेति ततश्चाविनाभाविकार्यकारणद्वयस्यैकत्वेऽभ्युपगम्यमानेऽन्यतराभावः स्यात्तस्मिश्चापन्ने शेषस्याभाव आपद्यत इत्यर्थः, तेन शेषस्याप्यविनाभुवोऽभाव इति व्याख्यास्यमानमार्थेन योगेन, न तु सौत्रेण, अभावा