________________
द्वितीयो भाग: [ परि० ४ - का० ७०]
विनाभावित्वात् । तथा पुरुषस्याश्रयस्याभावे चैतन्यस्याश्रयिणोऽप्यभावस्तदभावे पुरुषस्याप्यभावः, तत्स्वभावाविनाभावात् ।
( भा० ) तथा सति द्वित्वसङ्ख्यापि न स्यात् ।
पुरुषचैतन्ययोरेकत्वमिति ।
(भा०) संवृतिकल्पना शून्यत्वं नातिवर्तते, परमार्थविपर्ययाद्व्यलीकवचनार्थवत् ।
५४९
परमार्थतः सङ्ख्यापाये सङ्ख्येयाव्यवस्थानात् सकलधर्मशून्यस्य कस्यचिद्वस्तुनोऽसम्भवात् । तन्न कार्यकारणादीनामनन्यतैकान्तः सम्भवत्यन्यतैकान्त
वत् ॥६९॥
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥७०॥
( भा० ) अवयवेतरादीनां व्यतिरेकाव्यतिरेकैकान्तौ न वै यौगपद्येन सम्भविनौ विरोधात् । तथानभिलाप्यतैकान्ते स्ववचनविरोधस्तदभिलाप्यत्वात् । अनभिलाप्यतैकान्तस्याप्यनभिलाप्यत्वे कुतः परप्रतिपादनम् ? तद्वचनाच्चेत्, कथमनभिलाप्यतैकान्तः ? परमार्थतो न कश्चिद्वचनात्प्रतिपाद्यते इति चेत्स्वयमवाच्यताप्रतिपत्तिः कथम् ? वस्तुनि वाच्यतानुपलब्धेश्चेत्, सा यदि दृश्यानुपलब्धिस्तदा सिद्धा क्वचिद्वाच्यता । नो चेत्, नास्ति तदभावनिश्चयोऽतिप्रसङ्गात् । विकल्पप्रतिभासिन्यन्यापोहे प्रतिपन्नाया एव वाच्यतायाः स्वलक्षणे प्रतिषेधाददोष इति चेत्, न, वस्तुवाच्यतायाः प्रतिषेधायोगात्, तदन्यापोहमात्रवाच्यताया एव प्रतिषेधात् । न चान्यापोहवाच्यतैव वस्तुवाच्यता तत्प्रतिषेधाविरोधात् । निरस्तप्रायश्चायमवाच्यतैकान्त इत्यलं प्रसङ्गेन ।
( भा० ) स्याद्वादाभ्युपगमे तु न दोषः, कथञ्चित् तथाभावोपलब्धेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
न्वितस्य शेषपदार्थस्याविनाभुपदार्थेऽन्वयासम्भवादिति बोध्यम् ॥६९॥