________________
५५०
अष्टसहस्त्रीतात्पर्यविवरणम् सर्वं हि वस्तु व्यञ्जनपर्यायात्मकतया वाच्यमर्थपर्यायात्मकत्वेनावाच्यमिति स्याद्वादिभिर्व्यवस्थाप्यते, अन्यथा प्रमाणाभावात् ॥७०॥
तदेवमवयवावयव्यादीनामन्यत्वाद्येकान्तं निराकृत्याधुना तदनेकान्तं सामर्थ्यसिद्धमपि दुराशङ्कापनोदार्थं दृढतरं निश्चिचीषवः सूरयः प्राहु:
द्रव्यपर्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥७१॥ सज्ञासङ्ख्याविशेषाच्च स्वलक्षणविशेषतः । प्रयोजनादिभेदाच्च तन्नानात्वं न सर्वथा ॥७२॥
[द्रव्यपर्याययोः कथञ्चित् भेदाभेदौ स्तः] गुणिसामान्योपादानकारणानां द्रव्यशब्दाद् ग्रहणम् । गुणव्यक्तिकार्यद्रव्याणां पर्यायशब्दात् । तदेव द्रव्यपर्यायावेकं वस्तु, प्रतिभासभेदेऽप्यव्यतिरिक्तत्वात् ।
(भा०) यत्प्रतिभासभेदेऽप्यव्यतिरिक्तं तदेकं, यथा वेद्यवेदकज्ञानं रूपादिद्रव्यं वा मेचकज्ञानं वा । तथा च द्रव्यपर्यायौ न व्यतिरिच्यते ।
___ तस्मादेकं वस्त्विति मन्तव्यम् । पर्यायादवास्तवाद् व्यतिरिक्तमेव द्रव्यं वास्तवमेकेषाम् । द्रव्यादवास्तवाद् व्यतिरिक्त एव पर्यायो वास्तवः परेषाम् । ततोऽसिद्धो हेतुरिति न मन्तव्यं, (भा०) तदन्यतरापायेऽर्थस्यानुपपत्तेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
व्यञ्जनपर्यायात्मकतया वाच्यमिति अभिलाप्यपर्यायात्मना वाच्यमित्यर्थः । अर्थपर्यायात्मकत्वेनावाच्यमिति घटादेरपि षड्गुणहानिवृद्धिरूपागुरुलघुपर्यायात्मनाऽवाच्यत्वव्यवस्थितिरित्यर्थः । एवं गौर्गोत्वेन गोपदशक्यो न पशुत्वेनेत्यादिप्रतीत्यापि वाच्यावाच्यत्वानेकान्तो भावनीयः ॥७०॥
कार्यकारणादीनामनन्यतैकान्तदूषणेन तदनेकान्तस्य प्रक्रान्तत्वात् द्रव्यपर्याययोस्तदुपसंहारे उपक्रमोपसंहारविरोधः स्यादित्यालोच्य व्याचष्टे-गुणीत्यादि । ततो नासिद्धो