________________
द्वितीयो भागः [परि० ४-का. ७१-७२]
५५१ तथा हि न द्रव्यं केवलमर्थक्रियानिमित्तं क्रमयोगपद्यविरोधात् केवलपर्यायवत् । पर्यायो वा न केवलोऽर्थक्रियाहेतुस्तत एव केवलद्रव्यवत् । क्रमयोगपद्यविरोधस्तत्रासिद्ध इति चेत्, न द्रव्यस्य पर्यायस्य वा सर्वथैकस्वभावस्य क्रमयोगपद्यादर्शनात्, अनेकपर्यायात्मन एव द्रव्यस्य तदुपलम्भात् । [यौगो द्रव्यपर्याययोः सर्वथा भेदं मन्यते किन्तु जैनाचार्याः कथञ्चित् तयोरभेदं साधयन्ति ]
वास्तवत्वेऽपि द्रव्यपर्याययोरव्यतिरेकोऽसिद्धः, कुटादिद्रव्याद्रूपादिपर्यायाणां ज्ञानप्रतिभासभेदाद् घटपटादिवदिति चेत्, न, तस्यैकत्वाविरोधित्वात् ।
(भा० ) उपयोगविशेषाद्रूपादिज्ञाननिर्भासभेदः स्वविषयैकत्वं न वै निराकरोति, सामग्रीभेदे युगपदेकार्थोपनिबद्धविशदेतरज्ञानवत् ।
ततो नासिद्धो हेतुः । नापि विशेषणविरुद्धः, प्रतिभासभेदस्य विशेषणस्याव्यतिरिक्तहेतुना विरोधासिद्धेः । स्यान्मतम्- 'अव्यतिरिक्तमैक्यमेवोच्यते, ततोऽयं साध्याविशिष्टो हेतुरनित्यः शब्दो निरोधधर्मकत्वादिति यथा, ततो न गमक' इति तदसत्, कथञ्चिदप्यशक्यविवेचनत्वस्याव्यतिरिक्तस्य हेतुत्वेन प्रयोगात् । व्यतिरेचनं व्यतिरिक्तं विवेचनमिति यावत् । न विद्यते व्यतिरिक्तमनयोरित्यव्यतिरिक्तौ । तयोर्भावोऽव्यतिरिक्तत्वमशक्यविवेचनत्वम्, इति व्युत्पादनात्तयोरैक्यमेव वस्तुत्वमिति साध्यस्येष्टत्वान्न साध्यमेव हेतुर्यतो न गमकः स्यात् । न चैतदसिद्धमशक्यविवेचनत्वं, विवक्षितद्रव्यपर्यायाणां द्रव्यान्तरं नेतुमशक्यत्वस्य सुप्रतीतत्वाद्वेद्यवेदकाकारज्ञानवत् तदाकारयोर्ज्ञानान्तरं नेतुमशक्यत्वस्यैव तस्याभिमतत्वात् । तयोरयुतसिद्धत्वादेवमिति चेत्, किमिदमयुतसिद्धत्वं नाम ? न तावद्देशाभेदः, पवनातपयोस्तत्प्रसङ्गात् । नापि कालाभेदस्तत एव । स्वभावाभेद इति चेत्, न सर्वथासौ युक्तो विरोधात् । कथञ्चिच्चेत्तदेवाशक्यविवेचनत्वम् । स एवाविष्वग्भाव: समवाय इति परमतसिद्धिः, अन्यथा तस्याघटनात् । पृथगनाश्रया श्रयित्वं
- अष्टसहस्त्रीतात्पर्यविवरणम् हेतुरिति, ततः=उक्तकारणात्, द्रव्यपर्याययोरैक्ये साध्ये प्रतिभासभेदेऽप्यव्यतिरिक्तत्वादिति मूलोक्तो हेतु सिद्ध इत्यर्थः । नित्यनिरोधधर्मकत्वादिति' अनित्यधर्मत्वादित्यर्थः ।
१. अनित्यः शब्दो निरोधधर्मकत्वात् इति अष्टसहस्रीसम्मतः पाठः ।