________________
५५२
अष्टसहस्त्रीतात्पर्यविवरणम् पृथगगतिमत्त्वं चायुतसिद्धत्वमित्यपि नाशक्यविवेचनत्वादन्यत्प्रतिभाति । ततो न साध्यसाधनशून्यमुदाहरणमपि । रूपादिद्रव्यं वेत्यप्युदाहरणमुपपन्नं, प्रतीतिसिद्धत्वात्, रूपादिद्रव्ययोः समवायस्याशक्यविवेचनत्वस्यैवाव्यतिरिक्तत्वस्य साधनस्य सद्भावादैक्यस्य चैकवस्तुत्वस्य साध्यस्य निर्णीतेः । धर्मिग्राहकप्रमाणेन बाधनात्कालात्ययापदिष्टो हेतुरित्यपि न सत्यं, तेन धर्मिणोः कथञ्चिद्भिन्नयोरेव ग्रहणात्, सर्वथा भिन्नयोर्द्रव्यपर्यायत्वासम्भवात सह्यविन्ध्यवत् । ननु द्रव्यपर्याययोभिन्नयोः कथमभेदो विरोधादिप्रसङ्गादिति चेत्, न, तथोपलम्भान्मेचकज्ञानवत् सामान्यविशेषवद्वा । न हि तत्र विरोधवैयधिकरण्यसंशयव्यतिकरसरानवस्थाप्रतिपत्त्यभावाः प्रसज्यन्ते. तेषां तथा प्रतीत्यापसारितत्वात् । न च प्रकृतयोस्तथा प्रतीतिरसत्या सर्वदान्यथा प्रतीत्यभावात् ।
(भा०) तदेवं सति विरोधाधुपालम्भश्चतुरस्रधियां मनो मनागपि न प्रीणयति वर्णादेरप्यभावप्रसङ्गात् ।
द्रव्यमेवैकं, न वर्णादयो, विचारासहत्वाद्वर्णाद्येव वानेकं, न द्रव्यं नाम, तस्य विचार्यमाणस्य सर्वथानुपपत्तेरिति
(भा०) एकत्वानेकत्वैकान्तौ नान्योऽन्यं विजयेते, दूषणसमाधानयोः समानत्वात्, द्वयोरपि (भा० ) भावस्वभावप्रतिबन्धात् ।
द्रव्यैकत्वस्य भावस्वभावस्यैकान्तिकस्य प्रत्यक्षादिविरोधात् वर्णादिपर्यायैकान्तस्वभावस्य चाबाधितप्रत्यभिज्ञाननिराकृतत्वात् सिद्धं द्रव्यपर्याययोः कथञ्चिदैक्यम् ।
[द्रव्यपर्यायोः कथञ्चित् भेदोऽपि वर्तते इति जैनाचार्याः साधयन्ति ।] भेदः कथं सिद्धः ? इत्युच्यते ।
- अष्टसहस्त्रीतात्पर्यविवरणम् अत्राह-साध्यहेत्वोः शब्दभेद एव न त्वर्थभेदस्तद्वत्प्रकृतानुमानेऽपीति साध्याविशेषदोषप्रसङ्गो युक्त इत्यर्थः । प्रतीतिसिद्धत्वादिति अस्याव्यतिरिक्तत्वस्येत्यनेनान्वयः । धर्मिग्राहकप्रमाणेनेति धर्मिणोहिकप्रमाणेनेत्यर्थः । कथञ्चिद्भिन्नयोरेवेति अभेदसंवलित