________________
५५३
द्वितीयो भागः [परि० ४-का० ७१-७२]
(भा०) यत्परस्परविविक्तस्वभावपरिणामसञ्ज्ञासङ्ख्याप्रयोजनादिकं तद्भिन्नलक्षणं, यथा रूपादि, तथा च द्रव्यपर्यायौ,
तस्माद्भिन्नलक्षणावित्यनुमानात् परस्परविविक्तस्वभावपरिणामौ हि द्रव्यपर्यायौ, द्रव्यस्यानाद्यनन्तैकस्वभाववैश्रसिकपरिणामत्वात् पर्यायस्य च साधन्तानेकस्वभावपरिणामत्वात् । ततो नासिद्धः परिणामविशेषादिति हेतुः । एतेन शक्तिमच्छक्तिभावः सिद्धः कथितः । परस्परविविक्तस्वभावसज्ञासङ्ख्याविशेषौ च द्रव्यपर्यायौ, द्रव्ये द्रव्यमिति, पर्याये पर्याय इत्यन्वर्थसज्ञायाः प्रसिद्धः, एकं द्रव्यमित्येकत्वसङ्ख्यायाः, पर्याया बहव इति बहुत्वसङ्ख्यायाश्चनुपचरितायाः प्रसाधनात् । ततः सञ्ज्ञासङ्ख्याविशेषाच्चेत्यपि नासिद्धं साधनम् । द्रव्यस्यैकत्वान्वयज्ञानादिकार्यत्वात् पर्यायस्यानेकत्वव्यावृत्तिप्रत्ययादिकार्यत्वान्न तयोः परस्परविविक्तस्वभावप्रयोजनत्वमसिद्धम् । द्रव्यस्य त्रिकालगोचरत्वात् पर्यायस्य वर्तमानकालत्वाद्भिन्नकालत्वमपि न तयोरसिद्धं भिन्नप्रतिभासवत् । ततः प्रसिद्धाद्धेतोभिन्नलक्षणत्वं तयोः सिद्ध्यत्येव. इति स्वलक्षणविशेषतस्तन्नानात्वं सिद्धम । स्वमसाधारणं लक्षणं स्वलक्षणम्, तस्य विशेषो लक्ष्याविनाभावित्वं, तत एव तस्य लक्षणत्वोपपत्तेः ।
[वस्तुनो लक्षणमसाधारणरूपमिति साधयन्ति जैनाचार्याः ।] नन्वसाधारणं रूपं वस्तुनो लक्षणमित्युच्यमाने सर्वं भिन्नं प्रमेयत्वादित्यनुपसंहार्यस्यापि लक्षणत्वप्रसङ्ग इति चेत्, न कर्मतया प्रमितिजनकत्वस्य प्रमेयत्वस्यानुपसंहार्यस्यापि लक्षणत्वाविरोधात् सत्त्ववत् । सद्वस्तुलक्षणम्, उत्पादव्ययध्रौव्ययुक्तं सत् इति वचनात् [तत्त्वा० ५-३०] । ननु च यन्न सन्न तद्वस्तु, यथा शशविषाणमिति विपक्षस्यासतः सिद्धेर्नानुपसंहार्यं सत्त्वं सपक्षविपक्षरहितस्य पक्षव्यापिनोऽनुपसंहार्यत्वादिति चेत्, तत एव प्रमेयत्वमप्यनुपसंहार्यं मा भूत्, खरविषाणस्यासतो भिन्नत्वानाश्रयस्य कर्मत्वेन प्रमित्यजनकस्याप्रमेयस्य विपक्षस्य
- अष्टसहस्त्रीतात्पर्यविवरणम् भेदवतोरित्यर्थः । द्रव्यस्यैकत्वान्वयेत्यादि एकत्वान्वयज्ञानादि कार्यं यस्येति बहुव्रीयुत्तरस्त्वप्रत्ययो द्रष्टव्यः एवं पर्यायस्यानेकत्वेत्यादावपि । कर्मतयेति लक्ष्यतावच्छेदकसमनियतधर्मवचनत्वस्यैव लक्षणत्वादसङ्कीर्णव्यवहारस्यैव च तत्प्रयोजनत्वादिति