________________
५५४
अष्टसहस्त्रीतात्पर्यविवरणम्
भावात् । सर्वशब्देन सतोऽसतश्च ग्रहणान्न तस्य विपक्षत्वमिति चेत्, तर्हि सद्ग्रहणेन भावस्य भावान्तरस्वभावप्रागभावादेश्च स्वीकरणात् कस्यचित् तद्विपक्षत्वं मा भूत् । पराभ्युपगतस्यानुत्पादव्ययध्रौव्ययुक्तस्य विकल्पबुद्धिप्रतिभासिनो विपक्षत्वे सदसद्वर्गाभावस्य पराभ्युपगतस्याप्रमाणविषयस्य विपक्षत्वमस्तु सर्वथा विशेषाभावात् इति नानुपसंहार्यस्य सम्भवो, यतः पक्षव्यापिन एवासाधारणस्य वस्तुलक्षणत्वं न स्यात्, विद्यमानयोरविद्यमानयोर्वा सपक्षविपक्षयोरसतः पक्षव्यापिनोऽसाधारणत्ववचनात् । एतेन पक्षाव्यापकस्यासाधारणत्वं प्रत्युक्तं, तस्यासाधारणैकदेशत्वाल्लक्षणत्वायोगादग्नेरुष्णत्ववत् । न हि तत् सकलाग्निव्यक्तिष्वस्ति प्रदीपप्रभादिष्वनुद्भूतोष्णस्पर्शेष्वभावात् । न चानुद्भूतमपि लक्षणं युक्तमप्रसिद्धत्वात् । यदि पुनरुष्णस्पर्शयोग्यत्वं पावकस्य लक्षणं स्यान्न कश्चिद्दोषः पक्षव्यापिनोऽसाधारणत्वसिद्धेः । एतेनाविद्यमाने विपक्षेऽसतोऽसम्भवत्वसपक्षस्यासाधारणत्वमुपदर्शितं प्रत्येयम् । विद्यमाने च सपक्षेऽसतोऽसम्भवद्विपक्षस्य पक्षव्यापिनोऽसाधारणस्य लक्षणत्वमविरुद्धं शब्दस्यानित्यत्वे श्रावणत्ववत् । न हि तद् घटादावनित्ये सपक्षे विद्यमानेऽप्यस्ति । नाप्यस्य विपक्षो नित्यैकान्तः सम्भवति, शब्दत्वस्यापि सदृशपरिणामलक्षणस्य कथञ्चिदनित्यत्वात्, शब्दाभावस्य च शब्दान्तरस्वभावस्येतरेतराभावप्रध्वंसाभावरूपस्यानित्यत्वात् पक्षादन्यत्वानुपपत्तेः । अशब्दात्मनोऽश्रावणत्वात् साधीय एव श्रावणत्वं शब्दस्य लक्षणं, शब्दात्मकत्वाभावेऽनुपपद्यमानत्वाद्, इत्यन्यथानुपपद्यमानरूपं पक्षव्यापि लक्षणमनवद्यत्वात् ।
[द्रव्यपर्याययोर्लक्षणं भिन्नमेवेति स्पष्टयन्ति जैनाचार्याः ।]
तत्र द्रव्यस्य लक्षणं गुणपर्ययवत्त्वं, गुणपर्ययवद् द्रव्यम् इति वचनात् [तत्त्वा० ५.३८] क्रमाक्रमभाविविचित्रपरिणामाभावे द्रव्यस्य लक्षयितुमशक्तेः, अष्टसहस्त्रीतात्पर्यविवरणम्
भावः । एतेन = पक्षव्यापिन एवासाधारणस्य वस्तुलक्षणत्वप्रतिपादनेन, तस्य= पक्षैकदेशवर्त्तिनोऽसाधारणस्य, उपदर्शितं प्रत्येयमिति अग्निमात्रस्योष्णस्पर्शयोगित्वलक्षण इति गम्यम् । शब्दस्यानित्यत्वे श्रावणत्ववदिति अत्र हि श्रावणत्वं लक्ष्यतावच्छदेकसमनियतत्वेन लक्षणं भवदनुगतानतिप्रसक्तव्यवहार इवानित्यत्वसाधनेऽपि प्रत्यलमिति तत्र सपक्षावृत्तित्वमबाधकमिति भावः । पक्षव्यापि लक्षणमिति