________________
द्वितीयो भागः [परि. ४-का० ७१-७२] द्रव्यस्यापाये गुणपर्ययवत्त्वस्यानुपपत्तेः कार्यद्रव्ये घटादिविशेषे गुणवत्त्वस्य भावानवपुराणादिपर्याययोगित्वस्य च भावान्नाव्याप्तिर्लक्षणस्य, नाप्यतिव्याप्तिः, स्पर्शादिविशेषेषु क्रमजन्मसु पर्यायेषु स्पर्शादिसामान्येषु सहभाविषु गुणेषु चाभावात् । तथा पर्यायस्य तद्भावो लक्षणं, तद्भावः परिणाम इति वचनात् [तत्त्वा० ५-४१] । तेन तेन प्रतिविशिष्टेन रूपेण भवनं हि परिणामः, सहक्रमभाविष्वशेषपर्यायेषु तस्य भावादव्याप्त्यसम्भवात्, तदभावे च द्रव्ये तदनुपपत्तेः, इति प्रमाणसिद्धं भिन्नलक्षणत्वं द्रव्यपर्याययोः कथञ्चिन्नानात्वं साधयति, रूपाद्युदाहरणस्यापि साध्यसाधनवैकल्याभावात्, कथञ्चिन्नानात्वेन व्याप्तस्य भिन्नलक्षणत्वस्य परस्परविविक्तस्वभावपरिणामादित्वेन साधनात । रूपादेहि लक्षणं रूपादिबद्धिप्रतिभासयोग्यत्वं भिन्नं प्रसिद्धं कथञ्चित्तन्नानात्वं चेति निरवद्यमुदाहरणम् । ननु च भिन्नलक्षणत्वं स्यान्नानात्वं च न स्याद्विरोधाभावात् । ततः सन्दिग्धविपक्षव्यावृत्तिको हेतुरिति न शङ्कनीयं,
(भा०) विरुद्धधर्माध्यासास्खलबुद्धिप्रतिभासभेदाभ्यां च वस्तुस्वभावभेदसिद्धेः । अन्यथाऽनानैकं जगत्स्यात्, तदभ्युपगमे पक्षान्तरासम्भवादिति ।
विपक्षे बाधकप्रमाणसद्भावान्निश्चितव्यतिरेकित्वात् साधनस्य द्रव्यपर्याययोः सर्वथैकत्वे विरुद्धधर्माध्यासस्यास्खलबुद्धिप्रतिभासभेदस्य चायोगाद्भिन्नलक्षणत्वस्यानपपत्तेः, व्यापकस्य ग्राहकस्य चाभावे व्याप्यस्य विषयस्य चाव्यवस्थितेः । व्यवस्थितौ वा भिन्नलक्षणत्वस्य न किञ्चिदेकं जगति स्यात् । नापि नाना, विरुद्धधर्माध्यासाद्यभावेऽपि नानात्वस्य सिद्धौ तस्य तत्साधनत्वायोगात्, न चासाधना कस्यचित्सिद्धिरतिप्रसङ्गात् । न च नानात्वैकत्वाभ्युपगमे प्रकारान्तरमस्ति, यतो जगदनानैकं न स्यात् । न हि विरुद्धधर्माध्यासेतराभ्यामन्यन्नानात्वैकत्वस्वरूपम् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
उक्ततत्त्वमेतत्, न च वयुष्णस्पर्शी प्रमेयावित्यत्र वह्निलक्षणवाक्यत्वप्रसङ्गः, तत्र लक्ष्ये लक्ष्यतावच्छेदकसमनियतत्वसंसर्गेण तद्धर्मबोधकवचनत्वं तत्र तल्लक्षणवाक्यत्वमित्युक्तौ दोषाभावादिति दिग् । भाष्ये अनानैकं जगत् स्यादिति नानात्वरहितं जगत् स्यादित्यर्थः । तदभ्युपगमे =नानात्वाभ्युपगमे, पक्षान्तरासम्भवाद् विरुद्धधर्माध्यासाऽस्खलबुद्धि