________________
अष्टसहस्त्रीतात्पर्यविवरणम् नाप्यस्खलबुद्धिप्रतिभासभेदाभेदाभ्यामन्यत्तत्साधनं, यत्प्रकारान्तरं स्यात् ।
(भा०) ततः कारिकाद्वयेन सामान्यविशेषात्मानमर्थं संहृत्य तत्रापेक्षानपेक्षकान्तप्रतिक्षेपायाह
भगवान् वास्तवमेव इति । स्यान्नानात्वमेव स्वलक्षणभेदात् । स्यादेकत्वमेवाशक्यविवेचनत्वात् । स्यादुभयमेव क्रमार्पितद्वयात् । स्यादवक्तव्यमेव सहार्पितद्वयाद्वक्तुमशक्यत्वात् । स्यान्नानात्वावक्तव्यमेव विरुद्धधर्माध्याससहार्पितद्वयात् । स्यादेकत्वावक्तव्यमेव, अशक्यविवेचनसहार्पितद्वयात् । स्यादुभयावक्तव्यमेव क्रमाक्रमार्पितद्वयात् । इति सप्तभङ्गीप्रक्रिया दृष्टेष्टाविरुद्धावबोद्धव्या पूर्ववत् ।
कार्यादेर्भेद एव स्फुटमिह नियतः सर्वथा कारणादेरित्यायेकान्तवादोद्धततरमतयः शान्ततामाश्रयन्ति । प्रायो यस्योपदेशादविघटितनयान्मानमूलादलझ्यात्, स्वामी जीयात् स शश्वत्प्रथिततरयतीशोऽकलङ्कोरुकीर्तिः ॥ [स्रग्धरा]
इत्याप्तमीमांसालङ्कृतौ चतुर्थः परिच्छेदः ॥४॥
अष्टसहस्रीतात्पर्यविवरणम् ।
प्रतिभासभेदातिरिक्तप्रकाराभावादित्यर्थः । शिष्टं स्पष्टम् ॥७१-७२।।
कार्योपादानयोर्वा ननु गुणगुणिनोर्व्यक्तिजात्योरनन्यान्यत्वैकान्तान्धकारैर्जगदिदमखिलं नीतमान्ध्यं समन्तात् । व्यक्तस्याद्वादमार्गाः प्रतिहतकुमतोलूकनेत्रप्रचारास्तत्प्रध्वंसाय सज्जा भुवनगुरुगिरः सूर्यभासो जयन्ति ॥१॥ (स्रग्धरा)
इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगणि
शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण
पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे ॥ चतुर्थः परिच्छेदः सम्पूर्णः ॥