________________
॥ पञ्चमः परिच्छेदः ॥
यद्यापेक्षिकसिद्धिः स्यान्न द्वयं व्यवतिष्ठते । अनापेक्षिकसिद्धौ च न सामान्यविशेषता ॥७३॥
स्फुटमकलङ्कपदं या प्रकटयति पटिष्ठचेतसामसमम् । दर्शितसमन्तभद्रं साष्टसहस्त्री सदा जयतु ॥१॥
[ बौद्ध धर्मधर्मिणौ अपेक्षाकृतौ एव मन्यते तस्य पूर्वपक्ष: ।]
( भा० ) धर्मधर्मिणोरापेक्षिकी सिद्धिः, प्रत्यक्षबुद्धौ तदनवभासनाद् दूरादिवत् ।
न हि प्रत्यक्षबुद्धौ धर्मो धर्मी वा प्रतिभासते, तत्पृष्ठभाविविकल्पोपकल्पितत्वात्, तस्य स्वलक्षणस्यैव तत्र प्रतिभासनात्, शब्दापेक्षया सत्त्वादे
अष्टसहस्त्रीतात्पर्यविवरणम्
सहेलं खेलन्तं शिशुषु बहुवेलं धृतजयस्पृहेलं वेताले तनुविजितताले प्रददतम् । पविप्रायां मुष्टिं जनितजनतुष्टिं स्वहृदये, महावीरं धीरं गुणगणगभीरं प्रणिदधे ॥ अहीन्द्रः पाताले स्वफणतनुसङ्कोचमकरोद्, ययुर्दिङ्नागास्ते क्वचन गिरयः पेतुरभितः । यदंः सङ्घट्टाच्चलति सुरशैले परमिला, स्थिता यन्माहात्म्यात्तमिह जिनवीरं प्रणिदधे ॥ [ शिखरिणी]