________________
५५८
अष्टसहस्त्रीतात्पर्यविवरणम् धर्मत्वेऽपि ज्ञेयत्वापेक्षायां धर्मित्वव्यवहरणात्, तदपेक्षया ज्ञेयत्वस्य धर्मत्वेऽप्यभिधेयत्वापेक्षायां धर्मित्वव्यवहारात्, तदपेक्षया चाभिधेयत्वस्य धर्मत्वे प्रमेयत्वापेक्षायां धर्मित्वप्रसिद्धः, इति न क्वचिद्धर्मो धर्मी वा व्यवतिष्ठते । ततो न तात्त्विकोऽसौ । न हि नीलस्वलक्षणं संवित्स्वलक्षणं वा प्रत्यक्षमवभासमानं किञ्चिदपेक्ष्यान्यथाभावमनुभवदुपलब्धम् । केवलमपेक्षाबुद्धौ विशेषणविशेष्यत्वं सामान्यविशेषत्वं गुणगुणित्वं क्रियाक्रियावत्त्वं कार्यकारणत्वं साध्यसाधनत्वं ग्राह्यग्राहकत्वं वा प्रकल्प्यते दूरेतरत्वादिवत् ।
[जैनाचार्याः बौद्धस्यापेक्षिकैकान्तं निराकुर्वन्ति ।] इति यद्यापेक्षिकसिद्धिः स्यात्तदा न द्वयं व्यवतिष्ठते नीलस्वलक्षणं तत्संवेदनं चेति, तयोरप्यापेक्षिकत्वाद्विशेषणविशेष्यत्वादिवत् । तथा हि-ययोः सर्वथा परस्परापेक्षाकृता सिद्धिस्तयोर्न व्यवस्था । यथा परस्पराश्रययोः सरिति प्लवमानयोः । तथा च नीलतद्वेदनयोः सर्वथापेक्षाकृता सिद्धिः, इति तद्वयमपि न व्यवतिष्ठते । न हि नीलं नीलवेदनानपेक्षं सिद्धयति, तस्यावेद्यत्वप्रसङ्गात् संविन्निष्ठत्वाच्च वस्तुव्यवस्थानस्य । नापि नीलानपेक्षं नीलवेदनं, तस्य तस्मादात्मलाभोपगमादन्यथा निर्विषयत्वापत्तेः, इत्यन्यतराभावे शेषस्याप्यभावाद् द्वयस्याव्यवस्थानं स्यात् । एतेन नीलवासनातो नीलवेदनमित्यस्मिन्नपि दर्शने द्वयाव्यवस्थितिरुक्ता,
(भा०) तयोरन्योन्यापेक्षैकान्ते स्वभावतः प्रतिष्ठितस्यैकतरस्याप्यभावेऽन्यतराभावादुभयं न प्रकल्प्येत ।
नीलवेदनाभावे तद्वासनाविशेषस्याव्यवस्थितेरन्यथातिप्रसक्तेः, तद्वासनाविशेषमन्तरेण नीलवेदनस्याव्यवस्थितेरन्यथा निनिमित्तत्वापत्तेः । स्यान्मतं
- अष्टसहस्त्रीतात्पर्यविवरणम् पञ्चमे सापेक्षत्वाऽनपेक्षत्वस्याद्वादसिद्ध्यर्थमुपक्रमः । अपेक्षाबुद्धाविति व्यावर्तकव्यावर्त्यत्वाद्यपेक्षाजनितविकल्पबुद्धावित्यर्थः । यद्यापेक्षिकसिद्धिः स्यादिति सर्वत्रेति शेषः । नीलस्वलक्षणं तत्संवेदनं चेति तयोरपि सर्वकुक्षिप्रविष्टत्वादिति भावः । तयोरप्यापेक्षिकत्वादिति आपेक्षिकत्वप्रसङ्गादित्यर्थः । न हि नीलमित्यादि, यद्यपि एवमेकस्योत्पत्तावन्यस्य च ज्ञप्तावपेक्षेति नैकरूपेणापेक्षाविषयत्वं द्वयोः, तथापि निश्चयापेक्षया